5-2-104 सिकताशर्कराभ्यां च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् अण्
'तत् अस्य, अस्मिन् अस्तीति' (इति) सिकता-शर्कराभ्यामण्
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थाभ्याम् 'सिकता' तथा 'शर्करा' शब्दाभ्यामण्-प्रत्ययः भवति ।
सिकताशर्कराभ्यामण् प्रत्ययो भवति मत्वर्थे। सैकतो घटः। शार्करं मधु। अदेश इहोदाहरणम्। देशे तु लुबिलचौ भविष्यतः॥
सैकतो घटः ॥ शार्करः ॥
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'सिकता' (sand) तथा 'शर्करा' (sugar) एताभ्यां शब्दाभ्यां अण्-प्रत्ययः भवति । यथा - 1. सिकताः अस्य अस्मिन् वा सन्ति सः सैकतः । प्रक्रिया इयम् - सिकता + अण् → सैकता + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → सैकत् + अ [<<यस्येति च>> 6.4.148 इति आकारलोपः] → सैकत यथा - सैकतः घटः (The pot which contains the sand). 2. शर्करा अस्य अस्मिन् वा अस्ति सः शार्करः । स्मर्तव्यम् - 1. 'अप्सुमनःसमासिकतावर्षाणां बहुत्वं च' इति किञ्चन सूत्रम् लिङ्गानुशासने विद्यते, येन 'सिकता-शब्दः केवलं बहुवचने एव प्रयोक्तव्यः अस्ति' - इति ज्ञायते । अतः विग्रहवाक्ये 'सिकताः सन्ति' इति उच्यते । परन्तु एषः विषयः चिन्तनीयः अस्ति, यतः भाष्यकारः स्वयम् 'एका च सिकता तैलदाने असमर्था' इति प्रयोगः हयवरट्-सूत्रस्य भाष्ये करोति । 2. 'सिकताः सन्ति यस्मिन् देशे' इति विवक्ष्यते चेत् <<देशे लुबिलचौ च>> 5.2.105 इत्यनेन अग्रिमसूत्रेण मतुँप् तथा इलच् प्रत्ययौ अपि भवितुमर्हतः, तथा च पक्षे प्रत्ययस्य लुप् अपि भवति । अतः अत्र 'सैकतः घटः' इति देशभिन्नम् विशिष्टमुदाहरणम् दत्तमस्ति । 3. अण्-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इत्यनेन ङीप्-प्रत्ययं स्वीकुर्वन्ति। यथा - सैकती नदी, शार्करी धमनी ।
<<सिकताशर्कराभ्यां च>> - सिकताशर्कराभ्यां च । 'मत्वर्थे अ' णिति शेषः । सैकतो घट इति । सिकता अस्य सन्तीति विग्रहः । देशे लुपो वक्ष्यमाणत्वाद्धट इति विशेष्यम् ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रात्सिकताशब्दो नित्यं बहुवचनान्तः ।
शार्करं मध्विति। शर्करा माधुर्यम्, न तु गुडः, मधुनि तस्याभावात्। अदेश इहोदाहरणमिति। देशे विसेषस्य वक्ष्यमाणत्वात् ॥