5-1-82 द्विगोः यप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात् वयसि
'भूतः' (इति) मासात् द्विगोः वयसि यप्
'तम् भूतः' अस्मिन् अर्थे द्विगुसमासस्य उत्तरपदरूपेण विहितात् द्वितीयासमर्थात् 'मास' शब्दात् वयसि अभिधेये यप् प्रत्ययः भवति ।
मासाद् वयसीति वर्तते। मासान्ताद् द्विगोर्यप् प्रत्ययो भवति वयस्यभिधेये। द्वौ मासौ भूतो द्विमास्यः। त्रिमास्यः॥
मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ॥
<<मासाद्वयसि यत्खञौ>> 5.1.81 इत्यनेन 'मास' शब्दात् 'भूतः' अस्मिन् अर्थे वयसि अभिधेये यत् तथा खञ् प्रत्ययौ उक्तौ स्तः । परन्तु यदि अयम् 'मास'शब्दः द्विगुसमासस्य उत्तरपदरूपेण आगच्छति, तर्हि एतौ प्रत्ययौ बाधित्वा वर्तमानसूत्रेण यप्-प्रत्ययः भवति । 1. द्वौ मासौ भूतः = द्वि + मास + यप् → द्विमास्यः शिशुः । 2. त्रीन् मासान् भूतः = त्रि + मास + यप् → त्रिमास्यः शिशुः । 2. पञ्च मासान् भूतः = पञ्च + मास + यप् → पञ्चमास्यः शिशुः । ज्ञातव्यम् - 1. <<असमासे निष्कादिभ्यः>> 5.1.20 इत्यत्र पाठितेन <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन सङ्ख्यापूर्वपदस्थानां शब्दानां विषये तदन्तविधिः इष्यते । अतः मास-शब्दात् <<मासाद्वयसि यत्खञौ>> 5.1.81 इत्यनेन विहितौ यत्-खञ्-प्रत्ययौ 'द्वौ मासौ भूतः', 'त्रीन् मासान् भूतः' इत्यस्य विषये अपि विधीयते । एतौ बाधित्वा वर्तमानसूत्रेण यप्-प्रत्ययः विधीयते । 2. 'यप्' प्रत्यये इत्संज्ञकः पकारः स्वरनिर्देशार्थम् स्थापितः अस्ति । <<आद्युदात्तश्च>> 3.1.3 इत्यनेन प्रत्ययस्य आदिस्वरस्य उदात्तत्वे प्राप्ते पित्-प्रत्ययस्य विषये तं बाधित्त्वा <<अनुदात्तौ सुप्पितौ>> 3.1.4 इत्यनेन प्रत्ययस्य आदिस्वरः अनुदात्तः विधीयते । 3. अस्य सूत्रस्य प्रयोगः 'वयसि' इत्येव भवति, अन्यत्र न । यथा - द्वौ मासौ भूतः ज्वरः द्विमासिकः ज्वरः । अत्र औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते ।
<<द्विगोर्यप्>> - द्विगोर्यप् । अनुवर्तत इति । मासान्ताद्द्विगोर्भूत इत्यर्थे यप्स्याद्वयसि गम्ये इत्यर्थः ।
प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्पूर्वेण यत्खञोः प्राप्तयोर्यब्विधीयते। यपः पित्वादनुदातत्वम्, तेन कालान्ते द्विगाविति पूर्वपदप्रकृतिस्वर एवावतिष्ठते ॥