5-1-41 सर्वभूमिपृथिवीभ्याम् अणञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तस्य निमित्तं संयोगोत्पातौ
'तस्य निमित्तं संयोगोत्पातौ' इति सर्वभूमि-पृथिवीभ्यामण्-अञौ
'निमित्तम्' अस्मिन् अर्थे संयोगमुत्पातम् वा दर्शयितुम् षष्ठीसमर्थात् 'सर्वभूमि' शब्दात् अण् प्रत्ययः तथा पृथिवीशब्दात् अञ्-प्रत्ययः भवति ।
सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतः तस्य निमित्तं संयोगोत्पातावित्येतस्मिन् विषये। ठकोऽपवादौ। सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः। पार्थिवः। सर्वभूमेरनुशतिकादिपाठाद् ७.३.२० उभयपदवृद्धिः॥
सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पद्यते ॥
'निमित्तम्' इत्युक्ते कारणम् ।सर्वभूमेः पृथिव्याः वा निमित्तम् यदि कश्चन संयोगः उत्पात वा अस्ति, तर्हि तस्य संयोगस्य उत्पात्तस्य वा निर्देशं कर्तुम् 'सर्वभूमि' शब्दात् अण्-प्रत्ययः तथा पृथिवी-शब्दात् अञ्-प्रत्ययः भवति । 1. सर्वभूमेः निमित्तः संयोगः / उत्पातः = सर्वभूमि + अण् → सार्वभौमः । अत्र <<अनुशतिकादीनां च>> 7.3.20 इति उभयपदवृद्धिः भवति । 2. पृथिव्याः निमित्तः संयोगः / उत्पात = पृथिवी + अञ् → पार्थिवः । ज्ञातव्यम् - 1. अण्-प्रत्ययेन तथा च अञ्-प्रत्ययेन समानमेव रूपं जायते, केवलं स्वरयोर्मध्ये भेदः अस्ति । अञ्-प्रत्ययः ञित् अस्ति, अतः अञ्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन आद्युदात्ताः भवति । परन्तु णित्-प्रत्ययान्तशब्दानामादिस्वरः सामान्यतः अनुदात्तः जायते । 2. अस्मात् सूत्रात् 'सर्वभूमि' तथा 'पृथिवी' एतौ शब्दौ अग्रिम-अर्थज्ञापके सूत्रे अपि अनुवर्तेते ।
<<सर्वभूमिपृथिवीभ्यामणञौ>> - सर्वभूमि । तस्य निमित्तमित्येव । सर्वभूमि, पृथिवी — आभ्यां यथासङ्ख्यमणञौ स्तः । सार्वभौम इति । ठञोऽपवादोऽण् । पार्थिव इति । पृथिव्या निमित्तं संयोग उत्पातो वेत्यर्थः । स्त्रिया पार्थिवी । सार्वभौमशब्दे कथमुभयपदवृद्धिरित्यत आह — अनुशतिकादिषु पठत इति । तथाचअनुशतिकादीनां चे॑त्युभयपदवृद्धिरिति भावः ।
संयोगोत्पातौ प्रति यथासंख्यं न भवति, तयोः प्रत्ययार्थविशेषणत्वेन प्रकृतिभ्यां प्रत्ययाभ्यां चासम्बन्धात् ॥