ऋषभोपानहोर्ञ्यः

5-1-14 ऋषभोपानहोः ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तदर्थं विकृतेः प्रकृतौ

Sampurna sutra

Up

'तदर्थम् प्रकृतौ' (इति) ऋषभ-उपानहोः विकृतेः ञ्यः

Neelesh Sanskrit Brief

Up

चतुर्थीसमर्थात् विकृतिवाचकेभ्यः 'ऋषभ', तथा 'उपानह्' शब्दाभ्याम् प्रकृतिं निर्देशयितुम् ञ्य-प्रत्ययः भवति ।

Kashika

Up

ऋषभ उपानह् इत्येताभ्यां ञ्यः प्रत्ययो भवति तदर्थं विकृतेः प्रकृतावित्येतस्मिन् विषये। छस्यापवादः। आर्ष््भ्यो वत्सः। औपानह्यो मुञ्जः। चर्मण्यपि प्रकृतित्वेन विवक्षिते पूर्वविप्रतिषेधादयमेवेष्यते। औपानह्यं चर्म॥

Siddhanta Kaumudi

Up

छस्यापवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन ॥ औपानह्यं चर्म ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तदर्थम् विकृतेः प्रकृतौ>> 5.1.12 इत्यत्र पाठितस्य औत्सर्गिकस्य छ-प्रत्ययस्य अपवादरूपेण 'ऋषभ' (= वृषभः) तथा 'उपानह्' (= पादत्राणम्) एताभ्यां चतुर्थीसमर्थाभ्यां शब्दाभ्यां ञ्य-प्रत्ययः भवति । 1. ऋषभस्य नूतनम् अपत्यम् 'वत्स' नाम्ना ज्ञायते । निर्गता कालेन वत्सस्य ऋषभे परिवर्तनं भवति । अतः 'वत्स' इति प्रकृतिः, 'ऋषभः' इति विकृतिः - इति उच्यते । अत्र वत्स-ऋषभयोर्मध्ये 'तादर्थ्य'सम्बन्धः विद्यते, अतः वत्सस्य निर्देशं कर्तुम् ऋषभ-शब्दात् ञ्य-प्रत्ययविधानम् भवति । ऋषभाय अयम् वत्सः = ऋषभ + ञ्य → आर्षभ + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आर्षभ् + य [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आर्षभ्य ऋषभाय अयमार्षभ्यः वत्सः 2. 'उपानह्' इत्युक्ते पादत्राणम् । अयम् हकारान्त-स्त्रीलिङ्गः शब्दः । उपानहः निर्माणम् 'मुञ्ज' नाम्ना तृणात् क्रियते, अतः 'मुञ्ज'इति प्रकृतिः, 'उपानह्'-इति विकृतिः । द्वयोर्मध्ये 'तादर्थ्यसम्बन्धः' अस्ति, अतः अत्र मुञ्जस्य निर्देशं कर्तुम् 'उपानह्'-शब्दात् ञ्य-प्रत्ययः विधीयते । उपानहे अयम् मुञ्जः = उपानह् + ञ्य → औपानह् + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → औपानह्य उपानहे अयम् औपानह्यः मुञ्जः । अन्यद् उदाहरणम् - उपानहः निर्माणं चर्मणः अपि भवितुमर्हति, अतः 'चर्मन्' इत्यस्याः प्रकृत्याः 'उपानह्' इति विकृतिः । अतः चर्मणः निर्देशं कर्तुम् 'उपानह्'शब्दात् ञ्य-प्रत्ययः भवति । उपानहे इदम् औपानह्यम् चर्म । अत्र वस्तुतः <<चर्म्मणोऽञ्>> 5.1.15 इत्यनेन अग्रिमसूत्रेण उपानह्-शब्दात् अञ्-प्रत्ययः अपि विधीयते, परन्तु अत्र 'पूर्वविप्रतिषेधेन' वर्तमानसूत्रस्यैव प्रयोगः भवति । अस्मिन् विषये कौमुद्यां उच्यते - 'चर्मणि अपि अयमेव पूर्वविप्रतिषेधेन' । ज्ञातव्यम् - 'प्रकृतिः', 'विकृतिः' तथा 'तदर्थम्' - एतेषामर्थः <<तदर्थम् विकृतेः प्रकृतौ>> 5.1.12 इत्यत्र विस्तारेण प्रोक्तः अस्ति, सः तत्रैव द्रष्टव्यः ।

Balamanorama

Up

<<ऋषभोपानहोर्ञ्यः>> - ऋषभोपानहो । ऋषभ उपानह् अनयोः समाहारद्वन्द्वात्पञ्चमी । ऋषभशब्दादुपानह्शब्दाच्च तादथ्र्यचतुथ्र्यन्तात्प्रकृतौ वाच्यायां ञ्यप्रत्ययः स्यादित्यर्थः । आर्षभ्य इति । ऋषभाय अयमिति विग्रहः । ऋषभार्थ इत्यर्थः । यो वत्स ऋषभावस्थाप्राप्त्यर्थं पोष्यते स एवमुच्यते । औपानह्रो मुञ्ज इति । उपानहे अयमिति विग्रहः । उपानदर्थो मुञ्ज इत्यर्थः । क्लचिद्देशे मुञ्जतृणैरुपानत् क्रियते ।

Padamanjari

Up

महाप्राणः संहननवान् सुजातावयवो यो वत्स ऋषभावस्थाप्राप्तये पोष्यते। चर्मण्यपीति। ञ्यस्यावकाशः - औपानह्यए मुञ्जः, अत्रोऽवकाशः - वाह्यं चर्म, उपानच्छब्दाच्चर्मणि प्रकृतित्वेन विवक्षिते सति परत्वादञ्प्राप्नोति पूर्वविप्रतिषेधेन ञ्य एव भवति। ये तु सावकाशत्वे स्त्यपि प्रतिपदविधानं बलीयस्त्वे कारणमाहुः, तेषामयं पूर्वविप्रतिषेदोऽसङ्तः स्यात् ॥