5-1-13 छदिरुपधिबलेः ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तदर्थं विकृतेः प्रकृतौ
'तदर्थम् प्रकृतौ' (इति) छदिर्-उपधि-बलेः विकृतेः ढञ्
चतुर्थीसमर्थात् विकृतिवाचकेभ्यः 'छदिष्', 'उपधि', 'बलि' एतेभ्यः शब्देभ्यः कारणभूतां प्रकृतिं निर्देशयितुम् ढञ्-प्रत्ययः भवति ।
छदिरादिभ्यः शब्देभ्यो ढञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतावित्येतस्मिन् विषये। छस्यापवादः। छादिषेयाणि तृणानि। औपधेयं दारु। बालेयास्तण्डुलाः। उपधिशब्दात् स्वार्थे प्रत्ययः। उपधीयत इत्युपधिः रथाङ्गम्। औपधेयमपि तदेव दारु॥
छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ।<!उपधिशब्दात्स्वार्थे इष्यते !> (वार्तिकम्) ॥ उपधीयत इत्युपधी रथाङ्गं तदेव औषधेयम् ॥
<<तदर्थम् विकृतेः प्रकृतौ>> 5.1.12 इत्यत्र पाठितस्य औत्सर्गिकस्य छ-प्रत्ययस्य अपवादरूपेण 'छदिष्' (= गृहस्य छत्रम्), 'उपधि' (रथस्य चक्रम्), तथा 'बलि' (यज्ञे यस्य आहूतिः दीयते तत्) एतेभ्यः चतुर्थीसमर्थेभ्यः शब्देभ्यः ढञ्-प्रत्ययः भवति । 1. छदिषः निर्माणम् तृणानां परिवर्तनेन भवति, द्वयोर्मध्ये 'तादर्थ्य'सम्बन्धः अपि अस्ति - अतः 'छदिषे एतानि तृणानि' इत्यत्र 'छदिः' इति विकृतिः अस्ति, तृणम् इति प्रकृतिः अस्ति । अतः तृणानाम् निर्देशार्थम् 'छदिष्' शब्दात् ढञ्-प्रत्ययः भवति । छदिष् + ढञ् → छदिष् + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति एय्-आदेशः] → छादिष् + एय [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → छादिषेय छदिषे एतानि छादिषेयानि तृणानि । 2. 'उपधिः' (रथस्य चक्रम्) इत्यस्य निर्माणम् दारुणः (wood) भवति, अतः 'उपधये इदम् दारु' इत्यत्र दारुणः निर्देशार्थम् 'उपधि' शब्दात् ढञ्-प्रत्ययः भवति । उपधि + ढञ् → उपधि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति एय्-आदेशः] → औपधि + एय [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → औपध् + एय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → औपधेय । उपधये इदम् औपधेयम् दारु । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!उपधिशब्दात्स्वार्थे इष्यते !> - इत्युक्ते, 'उपधि' शब्दात् स्वार्थे अपि छ-प्रत्ययः भवति । उपधिः एव औपधेयम् । 3. 'बलिः' (यज्ञे दीयमाना आहूतिः) तण्डुलैः निर्मीयते । अत्र 'बलिः' इति विकृतिः, तण्डुलाः इति प्रकृतिः । अतः 'बलये एते तण्डुलाः' इत्यत्र तण्डुलानाम् निर्देशार्थं बलि-शब्दात् ढञ्-प्रत्ययः भवति । बलि + ढञ् → बलि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति एय्-आदेशः] → बालि + एय [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → बाल् + एय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → बालेय बलये एते बालेयाः तण्डुलाः । विशेषः - 'प्रकृतिः', 'विकृतिः' तथा 'तदर्थम्' - एतेषामर्थः <<तदर्थम् विकृतेः प्रकृतौ>> 5.1.12 इत्यत्र विस्तारेण प्रोक्तः अस्ति, सः तत्रैव द्रष्टव्यः ।
<<छदिरुपधिबलेः ढञ्>> - छदिरुपधिबलेर्ढञ् । छदिष्, उपधि, बलि-एषां समाहारद्वन्द्वे सौत्रं पुस्त्वम् । एभ्यस्तादथ्र्यचतुथ्र्यन्तेभ्यः प्रकृतौ वाच्यायां ढञित्यर्थः । छादिषेयाणीति । छदिस्तृणपटलः । तस्मै इमानीति विग्रहः । छदिरर्थानीत्यर्थः । ढञि एयादेशे षात्परत्वाण्णत्वम् । बालेयास्तण्डुला इति । बलये इमे इति विग्रहः । बल्यर्था इत्यर्थः ।करोपहारयोः पुंसि बलि॑रित्यमरः ।भागधेयः करो वलि॑रिति च । उपधिशब्दादिति । वार्तिकमिदम् । उपधीयते इति । अक्षदण्डाग्रे उपधीयते=प्रोतं क्रियते इत्युपधिः । 'उपसर्गे घोः किः' इति धाञः किप्रत्ययः ।आता लोप इटि चे॑त्याल्लोपः । उपधी रथाङ्गमिति । तथा भाष्यादिति भावः ।
छाद्यतेऽनेनेति च्छदिः, ठर्चिशुचिहुसृपिच्चदिभ्य इसिःऽ ठिस्मन्त्रन्क्विषु चऽ इति ह्रस्वत्वम्। छादिषेयाणि तृणानीति। यधा तु चर्मविकारश्च्छदिस्तदा परत्वात्'चर्मणो' ञ्ऽ इत्यञप्राप्नोति, तत्र पूर्वविप्रतिषेधेन ढञेवेष्यते-छादिषेयं चर्मेति, आह च'यञ्ञ्यावञः पूर्वविप्रतिषेधेन ढञ्च' इति। वृत्तिकारेण तु प्रतिपदविधेर्बलीयस्त्वान्नैतदुपन्यस्तमित्याहुः। नेति व्यम्; ढञोऽपि छादिषेयाणि तृणानीत्यत्र चरितार्थत्वात्। बालेयास्तण्कडुला इति। कथं पुनरत्र प्रकृतिविकृतिभावः, यदा बल्यवस्थायामपि त एव तण्कडुलाः ? नावश्यं यत्प्रकृत्युपमर्दनेनैव भवति स एव विकारः, तदेव गुणान्तरयुक्तमपि विकारः। अस्ति च बल्यवस्तायां हरिद्रायोगेन तण्डुलानां गुंणान्तरयोगः, अन्ततः प्रक्षालनेन श्वैत्यमार्द्रता मार्दवं सान्निवेशविशेषो वा भवति। उपधिशब्दात्स्वार्थे प्रत्यय इति। इष्टिरेषा। किं पुनः कारणमधिकारप्राप्तो नेष्यते ? इत्या - उपधीयत् इत्युपधिरित्यादि। यदेव हि तद्रथाङ्गमुपधीयमानत्वादुपधिशब्देन कर्मणि किप्रत्ययान्तेनोच्यते, यद्यपि तस्य प्रकृतिरस्ति, तथापि तत्र न ढञन्तं वर्तते, किं तर्हि? तत्रैव हि रथाङ्गे। स्वभावश्चात्र हेतुः, न च तदेव तस्य प्रकृतिर्भवति, अतः स्वार्थे प्रत्यय एषितव्यः। अथायमुपधानमुपधिरिति ? क्रियावचन उपधिशब्दस्तादर्थ्यमपि सम्भवति, उपधानक्रियार्थत्वाद् द्रव्यस्येत्युच्यते। एवमपि क्रियाविकारो न भवति, क्रियापि विकारो बवति; बहुविकारोऽयं मनुष्यो हसति नृत्यति गायतीति दर्शनात् ? सत्यम्;'तदर्थ विकृतेः प्रकृतौ' इत्यत्र तु विशिष्ट एव प्रकृतिविकारभावो गृह्यते - यत्र प्रकृतेरुच्छेदः, यत्र वा रूपान्तरापतिः। अत एव तत्र विवक्षितः प्रकृतिविकारभाव इत्युक्तम् ॥ ऋषबोपानहोर्ञ्यः ॥