प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्

5-1-129 प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यः यञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि

Sampurna sutra

Up

'तस्य भावः कर्मणि च' (इति) प्राणभृज्जाति-वयोवचन-उद्गात्रादिभ्यः अञ्

Neelesh Sanskrit Brief

Up

'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थेभ्यः प्राणिवाचकेभ्यः शब्देभ्यः, वयोवाचिभ्यः शब्देभ्यः तथा उद्गात्रादिगणस्य शब्देभ्यः अञ्-प्रत्ययः भवति ।

Kashika

Up

प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्च अञ् प्रत्ययो भवति भावकर्मणोरर्थयोः। अश्वस्य भावः कर्म वा आश्वम्। औष्ट्रम्। वयोवचनेभ्यः — कौमारम्। कैशोरम्। उद्गात्रादिभ्यः — औद्गात्रम्। औन्नेत्रम्॥ उद्गातृ। उन्नेतृ। प्रतिहर्तृ। रथगणक। पक्षिगणक। सुष्ठु। दुष्ठु। अध्वर्यु। वधू। सुभग मन्त्रे (ग०सू०१२०) उद्गात्रादिः॥

Siddhanta Kaumudi

Up

प्राणभृज्जाति, आश्वम् । औष्ट्रम् । वयोवचने, कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामर्थम् पश्यामः - 1. प्राणभृज्जाति - 'प्राणभृत् + जाति' इत्यनेन अयम् शब्दः जायते । द्वयोः शब्दयोः प्रयोजनम् एतादृशम् - [अ] 'प्राणभृत्' = 'प्राण + भृ + शतृ' इति अयम् शब्दः सिद्ध्यति ।प्राणम् बिभर्ति (धारयति /पोषयति) सः प्राणभृत् । सर्वे जीविताः मनुष्याः, पशवः पक्षिणश्च अनेन शब्देन निर्दिश्यन्ते । वृक्षाणाम् / तृणानाम् / लतानाम् ग्रहणम् तु अनेन न क्रियते । [आ] 'जाति' - वर्गः/सामान्यरूपम् (category) इति अस्य शब्दस्य अर्थः । 'अश्वः / गौः / गरुड. / सर्पः एतादृशाः पशूनाम् / पक्षिणाम् ये जातिवाचकाः शब्दाः, तेषामत्र ग्रहणम् भवति ; परन्तु 'देवदत्तः / कपिला / वैनतेयः' एतादृशानाम् विशिष्टव्यक्तिवाचकशब्दानाम् ग्रहणम् न भवति । The word जाति is used to indicate that the individual proper nouns are excluded, only the 'class' is included. अतः संक्षेपेण 'प्राणभृज्जाति' इत्यनेन पशूनाम् / पक्षिणाम् / मनुष्याणाम् गणस्य निर्देशः भवति, यथा - अश्व, गो, उष्ट्र, गरुड - आदयः । स्मर्तव्यम् - 'पुरुष' इति शब्दः अपि प्राणभृज्जातिवाचकः अस्ति, परन्तु सः <<हायनान्तयुवादिभ्योऽण्>> 5.1.130 इत्यत्र निर्दिष्टे युवादिगणे समाविश्यते, अतः तस्मात् <<हायनान्तयुवादिभ्योऽण्>> 5.1.130 इत्यनेन अण्-प्रत्ययः भवति । 2. वयोवचनम् - यैः शब्दैः आयुषः अवस्थानाम् निर्देशः भवति, ते शब्दाः वयोवाचिनः शब्दाः नाम्ना ज्ञायन्ते । (words indicating age / stages of life). यथा - शिशु, बाल, तरुण, प्रौढ, वृद्ध - आदयः । स्मर्तव्यम् - 'युवन्' तथा 'स्थविर' (old) एतौ शब्दौ वयोवाचिनौ स्तः । परन्तु एतौ शब्दौ <<हायनान्तयुवादिभ्योऽण्>> 5.1.130 इत्यत्र निर्दिष्टे युवादिगणे समाविश्येते, अतः एताभ्याम् वर्तमानसूत्रेण अञ्-प्रत्यये तं बाधित्वा <<हायनान्तयुवादिभ्योऽण्>> 5.1.130 इत्यनेन अण्-प्रत्ययः एव विधीयते । 3. 'उद्गात्रादिगण' - अयम् गणः एतादृशः अस्ति - उद्गातृ, उन्नेतृ, प्रतिहर्तृ, रथगणक, पक्षिगणक, सुष्ठु, दुष्ठु, अध्वर्यु, वधू, 'सुभग मन्त्रे' (गणसूत्रम्) । एतेभ्यः सर्वेभ्यः शब्देभ्यः 'तस्य भावः' तथा 'तस्य कर्म' अस्मिन् अर्थे औत्सर्गिकरूपेण त्व-तल्-प्रत्यययोः प्राप्तयोः पक्षे वर्तमानसूत्रेण अञ्-प्रत्ययः अपि भवति । यथा - 1. प्राणभृज्जातिवाचकाः शब्दाः - अश्वस्य भावः कर्म वा = अश्व + अञ् → आश्वम् । उष्ट्रस्य भावः कर्म वा औष्ट्रम् । नकुलस्य भावः कर्म वा नाकुलम् । हंसस्य भावः कर्म वा हांसम् ।गरुडस्य भावः कर्म वा गारुडम् । मनुषस्य भावः कर्म वा मानुषम् । 2. वयोवाचिनः शब्दाः - शिशोः भावः कर्म वा = शिशु + अञ् → शैशवम् । तरुणस्य भावः कर्म वा तारुणम् । किशोरस्य भावः कर्म वा कैशोरम् । कुमारस्य भावः कर्म वा कौमारम् । प्रौढस्य भावः कर्म वा प्रौढम् । वृद्धस्य भावः कर्म वा वार्द्धम् । 3. उद्गात्रादिगणस्य शब्दाः - उद्गातुः भावः कर्म वा = उद्गातृ + अञ् → औद्गात्रम् । उन्नेतुः भावः कर्म वा औन्नेत्रम् । सुष्ठोः भावः कर्म वा सौष्ठवम् । अध्वर्योः भावः कर्म वा आध्वर्यवम् । अस्मिन् उद्गात्रादिगणे 'सुभग मन्त्रे' इति गणसूत्रम् विद्यते । अस्य अर्थः अयम् - 'सुभग' शब्दात् अनेन सूत्रेण 'अञ्' प्रत्ययं कृत्वा 'सौभग' अयम् शब्दः केवलं वेदेषु दृश्यते । यथा - 'उच्छ्र॑यस्व मह॒ते सौभ॑गाय' (ऋग्वेदः 3.8.2) । अत्र प्रक्रिया इयमस्ति - सुभग + अञ् → सौभग + अ [<<हृद्भगसिन्ध्वन्ते पूर्वपदस्य च>> 7.3.19 इत्यनेन उभयपदयोः वृद्धौ प्राप्तायाम् 'सर्वे वेदाः छन्दसि विकल्प्यन्ते' इति न्यायेन अत्र केवलम् पूर्वपदवृद्धिः एव भवति] → सौभग् + अ [<<यस्येति च>> 6.4.148 इति अन्तिमवर्णलोपः] → सौभग अन्यत्र तु 'सुभग' शब्दः ब्राह्मणादिगणे स्वीकृत्य <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> 5.1.124 इत्यनेन तस्मात् ष्यञ्-प्रत्ययः क्रियते - सुभग + ष्यञ् → सौभाग + य [<<हृद्भगसिन्ध्वन्ते पूर्वपदस्य च>> 7.3.19 इत्यनेन उभयपदवृद्धिः] → सौभाग् + य [<<यस्येति च>> 6.4.148 इति अकारलोपः] → सौभाग्य सुभगस्य भावः कर्म वा सौभाग्यम् । ज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः सर्वेभ्यः शब्देभ्यः औत्सर्गिकौ त्व-तल्-प्रत्ययौ अपि भवतः । यथा - अश्वस्य भावः कर्म वा अश्वत्वम् / अश्वता । शिशोः भावः कर्म वा शिशुत्वम् / शिशुता । उद्गातुः भावः कर्म वा उद्गातृत्वम् / उद्गातृता ।

Balamanorama

Up

<<प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्>> - प्राणभृज्जाति । प्राणभृतः — प्राणिनः, तज्जातिवाचिभ्यो, वयोविशेषवाचिभ्य, उद्गात्रादिभ्यश्च षष्ठन्तेभ्यो भावकर्मणोरञित्यर्थः । प्राणभृज्जातीति । उदाहरणसूचनम् । एवं वयोवचनेति ।

Padamanjari

Up