7-3-19 हृद्भगसिन्ध्वन्ते पूर्वपदस्य च वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य
हृद् भग सिन्धु इत्येवमन्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। सुहृदयस्येदं सौहार्दम्। सुहृदयस्य भावः सौहार्द्यम्। सुभगस्य भावः सौभाग्यम्। दौर्भाग्यम्। सुभगाया अपत्यं सौभागिनेयः। दौर्भागिनेयः। कल्याण्यादिषु ४.१.१२६ सुभगादुर्भगेति पठ्यते, <<सुभग मन्त्रे>> (ग०सू० १२०) इत्युद्गात्रादिषु ५.१.१२९ पठ्यते। तत्रोत्तरपदवृद्धिर्नेष्यते, महते सौभगाय (ऐ० ब्रा० २.२), छन्दसि सर्वविधीनां विकल्पितत्वात्। सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, सक्तुसिन्धुषु भवः साक्तुसैन्धवः। पानसैन्धवः। सिन्धुशब्दः कच्छादिषु ४.२.१३३ पठ्यते, तेन तदन्तविधिरिष्यत इत्यण् प्रत्ययः॥
हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिर्ञिति णिति किति च । सुहृदोपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ॥
<<हृद्भगसिन्ध्वन्ते पूर्वपदस्य च>> - ह्मद्भग । ह्मदाद्यन्त इति । ह्मत्, भग, सिन्धु-एतदन्तेषु समासेष्वित्यर्थः । चकारादुत्तरपदस्येत्यनुकृष्यते । तदाह — पूर्वोत्तरपदयोरिति । सौहार्द इति । अणि उभयपदादिवृद्धिः । ऋकारस्य तु आकारो रपरः । सौभागिनेय इति । कल्याण्यादित्वाड्ढकि इनङि उबयपदादिवृद्धिरिति भावः । एतत्प्रसह्गादेव इदं सूत्रमत्रोपन्यस्तम् । 'महते सौभगाय' इत्यत्र तु उद्गात्रादित्वाद्भावे अञ् । उत्तरपदादिवृद्ध्यभावश्छान्दसः । सिन्धव इति । अआआ इत्यर्थः ।
सुहृद इति ।'सुहृद्दुर्ह्ड्दौ मित्रामित्रयोः' इति निपातितः सुहृच्छब्दः । यदा तु सुहृदयस्येदमिति पाठः, तदा'हृदयस्य हृल्लेख' इत्यादिना हृद्भावः । सौहार्द्यमिति ।'वा शोकष्यञ्रोगेषु' इति हृद्भावः । सिन्धवो जनपदः, नदीवचनस्यापि ग्रहणम्, तथा समुद्रवचनस्यापि ॥