कपिज्ञात्योर्ढक्

5-1-127 कपिज्ञात्योः ढक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि

Sampurna sutra

Up

index: 5.1.127 sutra: कपिज्ञात्योर्ढक्


'तस्य भावः कर्मणि च' (इति) कपि-ज्ञात्योः ढक्

Neelesh Sanskrit Brief

Up

index: 5.1.127 sutra: कपिज्ञात्योर्ढक्


'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थात् 'कपि'शब्दात् 'ज्ञाति'शब्दात् च ढक्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.127 sutra: कपिज्ञात्योर्ढक्


कपिज्ञातिशब्दाभ्यां ढक् प्रत्ययो भवति भावकर्मणोरर्थयोः। कपेर्भावः कर्म वा कापेयम्। ज्ञातेयम्। यथासङ्ख्यमर्थयोः सर्वत्र एव अत्र प्रकरणे न इष्यते।

Siddhanta Kaumudi

Up

index: 5.1.127 sutra: कपिज्ञात्योर्ढक्


कापेयम् । ज्ञातेयम् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.1.127 sutra: कपिज्ञात्योर्ढक्


कापेयम्। ज्ञातेयम्॥

Neelesh Sanskrit Detailed

Up

index: 5.1.127 sutra: कपिज्ञात्योर्ढक्


'भावः' तथा 'कर्म' एतयोः अर्थयोः 'कपि' (= मर्कटः / monkey) तथा 'ज्ञाति' (स्वजातीय / सम्बन्धी / relative) एतौ शब्दौ औत्सर्गिकरूपेण 'त्व' तथा 'तल्' प्रत्ययौ स्वीकुरुतः ; पक्षे च वर्तमानसूत्रेण ढक्-प्रत्ययमपि प्राप्नुवतः । यथा -

कपेः भावः कर्म वा

कपि + ढक्

→ कपि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति 'ढ' इत्यस्य एय-आदेशः]

→ कापि + एय [किति च 7.2.118 इति आदिवृद्धिः]

→ काप् + एय [यस्येति च 6.4.148 इति इकारलोपः]

→ कापेय ।

पक्षे 'कपित्व' तथा 'कपिता' - एतौ शब्दौ अपि भवतः । कपेः भावः कर्म वा कापेयम्, कपित्वम्, कपिता ।

तथैव - ज्ञातेः भावः कर्म वा ज्ञातेयम्, ज्ञातित्वम्, ज्ञातिता ।

स्मर्तव्यम् - यद्यपि अस्मिन् सूत्रे 'भाव' तथा 'कर्म' द्वयोः अर्थयोः विषये 'कपि' तथा 'ज्ञाति' द्वे प्रातिपदिके निर्दिष्टे स्तः, तथाप्यत्र 'यथासङ्ख्यत्वम्' न इष्यते । गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यस्मात् आरभ्य ब्रह्मणस्त्वः 5.1.136 इति यावत्सु सर्वेषु सूत्रेषु उक्तानाम् सर्वेषाम् प्रातिपदिकानाम् विषये 'भाव' तथा 'कर्म' द्वयोः अपि अर्थयोः प्रसक्तिः विद्यते ।

Balamanorama

Up

index: 5.1.127 sutra: कपिज्ञात्योर्ढक्


कपिज्ञात्योर्ढक् - कपिज्ञात्योर्ढक् । पञ्चम्यर्थे षष्ठी । आभ्यामपि षष्ठन्ताभ्यां भावकर्मणोर्ढगित्यर्थः । अत्र कपि ज्ञात्योर्भावकर्मणोश्च न यथासङ्ख्य, व्याख्यानात् ।

Padamanjari

Up

index: 5.1.127 sutra: कपिज्ञात्योर्ढक्


राजास यिति। राजशब्दोऽसेऽसमासे यकमुत्पादयति - राज्ञो भावः कर्म वा राज्यम्। ठसेऽ इति किम्? आधिराज्यम्, ब्राह्मणादित्वलात्यञ्। यद्यपि तत्र राजशब्दः पठ।ल्ते, तथाप्ययमेवास इति प्रतिषेधो ज्ञापयति - ठस्त्यत्र राजशब्दे तदन्तविधिःऽ इति। एवं च ब्राह्मणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति। अपर आह -'ब्राह्मणादेराकृतिगणत्वादेव तदन्तात् ष्यञि सिद्धे राजशब्दस्य तत्र पाठो यका सह समावेशार्थः' इति, तथा चावेष्ट।ल्धिकरणे शाबरबाष्ये उक्तम् -'तस्य कर्मणि ष्यञ्' इति ॥ प्राणमृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ॥ प्राणभृतःउप्राणिनः, प्राणिग्रहणमेव न कृतं वैचित्र्यार्थम्। प्राणभृद्ग्रहणातृणत्वं तृणतेत्यादौ न भवति, जातिग्रहणाद्देवदतत्वमित्यादौ न भवति। यत्विहेगन्तं लघुपूर्वं तस्मात्परत्वादण् भवति - तैतिरम्। उद्गात्रादिषु य ऋत्विग्वचनास्तेभ्यः'होत्राब्यश्च्छः' इति छे प्राप्देऽञ् चविधीयते। सुष्ठुअदुष्ठुअभ्यां गुणवचनलक्ष्णे ष्यञि, वधूशब्दादिगन्तलक्षणेऽणि, शेषेभ्यस्त्वतलोः प्राप्तयोः। सुभगं मन्त्रे इति। सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगेऽञमुत्पादयति -'महते सौभगाय' , सर्वविधीनां च्छन्दसि विकल्पितत्वात्'हृद्भगसिन्ध्वन्त' इत्युतरपदवृद्धिर्न भवति। अत एव मन्त्रे क्वचिदञ् न भवति - सौभाग्यमस्यै दत्वाय ॥ हायनान्तयुवादिभ्योऽण् ॥ हायनान्तात्वतलोः प्राप्तयोरण्विधानम्। यौवनमिति। ठन्ऽ इति प्रकृतिभावः, मनोज्ञादित्वद्वुञपि भवति। स्थविरशब्दस्य वयोलक्षणेऽञि प्राप्ते पाठः, होतृशब्दस्याप्युद्गात्रादित्वादञ्येव। पुरुषास इति। पुरुषशब्दोऽसमासेऽणमुत्पादयति, पौरुषम्, प्राणभृज्जातिवाचित्वादञ् प्राप्तः, मनुष्यजातिवचनो ह्रसौ न पुंस्शब्दपर्यायः पुंल्लिङ्गवचनः; स्त्रियामपि दशनात् - तस्यामस्यां च पुरुषीश्च धेनुके दद्यरिति। अस इति किम्? राजपुरुषत्वम्। कमण्डलुशब्दस्येगन्तत्वादेवाणि सिद्धे त्वतल्निवृत्यर्थः पाठः। हृदयास इति। दृदयशब्दोऽसमासेऽणमुत्पादयति-हृदयस्य भावो हार्दम्,'हृदयस्य हृल्लोखयदण्लासेषु' इति हृद्भावः। असे इति किम् ? अहृदयत्वम्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव सिद्धे समासप्रतिषेधश्चिन्त्यप्रयोजनः। कुशलादीनां क्षेत्रज्ञान्तानां ब्राह्मणादित्वात्ष्यञपि भवति। श्रोत्रियस्य घलोपश्चेति। यदा'श्रोत्रियÄश्च्छन्दोधीते' इत्यत्र च्छन्दसः श्रोतृभावो घश्च प्रत्यय इति पक्षः, तदा घलोपः; यदा तु'वाक्यर्थे पदवचनम्' इति पक्षः, तदा घशब्देन य इति रुपं लक्ष्यते। क्वचितु यलोपश्चेति पाठः; तत्र यलोपे सङ्गातग्रहणम्, वर्णग्रहणे त्वकारस्य यस्येतिलोपे सति इकारस्य यणादेशप्रसङ्गः, सङ्घातलोपे त्विकारस्य यस्येति लोपः - सर्वथा श्रोत्रियस्य भावः श्रौत्रमिति ॥