खः सर्वधुरात्

4-4-78 खः सर्वधुरात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत् वहति

Sampurna sutra

Up

index: 4.4.78 sutra: खः सर्वधुरात्


'तत् वहति' इति सर्वधुरात् खः

Neelesh Sanskrit Brief

Up

index: 4.4.78 sutra: खः सर्वधुरात्


द्वितीयासमर्थात् 'सर्वधुरा' शब्दात् 'वहति' अस्मिन् अर्थे वाहकस्य निर्देशं कर्तुम् 'ख'-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.78 sutra: खः सर्वधुरात्


तद्वहति इत्येव। सर्वधुराशब्दाद् द्वितीयासमर्थात् वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। सर्वधुरां वहति सर्वधुरीणः। स्त्रीलिङ्गे न्याय्ये सर्वधुरातिति प्रातिपदिकमात्रापेक्षो निर्देशः। खः इति योगविभागः कर्तव्यः इष्टसङ्ग्रहार्थः। उत्तरधुरीणः। दक्षिणधुरीणः।

Siddhanta Kaumudi

Up

index: 4.4.78 sutra: खः सर्वधुरात्


सर्वधरां वहतीति सर्वधुरीणः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.78 sutra: खः सर्वधुरात्


'सर्वधुरा' इत्युक्ते सम्पूर्णः भारः । अयम् स्त्रीलिङ्गशब्दः । अस्मात् शब्दात् 'वहति' अस्मिन् अर्थे ख-प्रत्ययः भवति ।

सर्वधुराम् वहति सः

= सर्वधुरा + ख

→ सर्वधुरा+ ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ख-प्रत्ययस्य ईन-आदेशः]

→ सर्वधुर् + ईन [यस्येति च 6.4.148 इति आकारलोपः]

→ सर्वधुरीण [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति णत्वम्]

सर्वधुरां वहति सः सर्वधुरीणः ।

ज्ञातव्यम्

  1. अस्मिन् सूत्रे 'सर्वधुरा' इति स्त्रीलिङ्गवाचिशब्दात् प्रत्ययः उच्यते, अतः अत्र वस्तुतः 'सर्वधुरायाः खः' इति वक्तव्यम् । परन्तु अस्मिन् सूत्रे 'सर्वधुरात्' इति नपुंकसस्य प्रयोगः कृतः अस्ति । अयम् प्रयोगः मूलप्रातिपदिकमात्रस्य (सर्वधुर-इत्यस्य) ग्रहणम् कृत्वा कृतः अस्तीति व्याख्यानेषु स्पष्टीक्रियते । न्यासकारः अस्मिन् विषये वदति - 'सर्वधुरादिति नपुंसकलिङ्गेन निर्देशः स शब्दरूपापेक्षः, अर्थापेक्षे हि निर्देशे परवल्लिङ्गता भवति' । इत्युक्ते, 'अर्थग्रहणे (तद्धितप्रत्यययोजने) तु स्त्रीलिङ्गस्यैव प्रयोगः कर्तव्यः' इति अत्र आशयः अस्ति ।

  2. अस्य सूत्रस्य 'योगविभागः करणीयः' इति काशिकाकारः वदति । इत्युक्ते, 'ख' इति भिन्नं सूत्रम् स्वीकृत्य अन्येषां शब्दानां विषये अपि ख-प्रत्ययविधानम् कर्तव्यम् । यथा , उत्तरधुरम् वहति सः उत्तरधुरीणः, दक्षिणधुरं वहति सः दक्षिणधुरीणः ।

Balamanorama

Up

index: 4.4.78 sutra: खः सर्वधुरात्


खः सर्वधुरात् - खः सर्वधुरात् । सर्वा धूः सर्वधुरा । 'पूर्वकाल' इति तत्पुरुषः ।ऋक्पू॑रिति समासान्तः ।परवल्लिङ्ग॑मिति स्त्रीत्वाट्टाप् । इह तु शब्दस्वरूपापेक्षया नपुंसकनिर्देशः । द्वितीयान्तात्सर्वधुराशब्दाद्वहतीत्यर्थे खः स्यादित्यर्थः । सर्वधुरीण इति । सर्वधुरां वहतीत्यर्थः ।स तु सर्वधुरीणो यो भवेत्सर्वधुरावहः॑ इत्यमरः ।

Padamanjari

Up

index: 4.4.78 sutra: खः सर्वधुरात्


स्त्रीलिङ्गनिर्देशो न्याय्य इति । सर्वा चासौ धूश्चेति'पूर्वकाल' इत्यादिना समासः, ऋक्पूरब्धूःऽ इत्यकारः समासान्तः, तत्र धूः शब्दस्य स्त्रीलिङ्गत्वात्'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' इति वचनात् स्त्रीलिङ्गनिर्देशस्य न्याय्यत्वम्, यथा -'बन्धुनि बहुव्रीहौ' इत्यत्र । दक्षिणधुरीणः । दक्षिणां धुरं वहति, उतरां धुरं वहतीति तद्धितार्थे समासः, ततोऽकारः समासान्तः ॥