4-3-121 रथात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्
रथशब्दाद् यत् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। अणोऽपवादः। रथस्येदं रथ्यम्, चक्रं वा युगं वा। रथाङ्ग एवेष्यते नान्यत्र, अनभिधानात्। <<रथसीताहलेभ्यो यद्विधौ>> (१.१.७२ महाभाष्यवा०) इति तदन्तविधिरुपसंख्यायते। परमरथ्यम्। उत्तमरथ्यम्॥
रथ्यं चक्रम् ॥
<<रथाद्यत्>> - रथाद्यत् ।तस्येद॑मित्येव । रत्यं चक्रमिति । 'रथाद्रथाङ्गे' इति वचनाच्चकमिति विशेष्यम् ।
रथाङ्ग एवेष्यत इति । यस्तु रथस्य वोढा रथ्य इति वोढरि प्रयोगः, सः'तद्वहति रथयुगप्रासङ्गम्' इति द्रष्टव्यः । स्यादेतत् - अयमेव तद्वोढर्यपीष्यताम्,'तद्वहति' इत्यत्र रथग्रहणं मा कारीति ? नैवं शक्यम्, इह द्वौ रथौ वहति द्विरथ्य इति'द्विगोर्लुगनपत्ये' इति प्राग्दीव्यतीयो लुक् प्राप्नोति । यतु द्वयो रथयोरङ्गं तत्र द्विरथमित्येव भवति ॥