कुलत्थकोपधादण्

4-4-4 कुलत्थकोपधात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन संस्कृतम्

Sampurna sutra

Up

'तेन संस्कृतम्' (इति) कुलत्थ-कोपधात् अण्

Neelesh Sanskrit Brief

Up

'संस्कृतम्' अस्मिन् अर्थे तृतीयासमर्थात् कुलत्थशब्दात् तथा ककारोपधशब्दात् अण्-प्रत्ययः भवति ।

Kashika

Up

कुलत्थशब्दात् ककारोपधाच् छब्दाच् च प्रातिपदिकादण् प्रत्ययो भवति संस्कृतमित्येतस्मिन् विषये। ठकोऽपवादः। कुलत्थैः संस्कृतं कौलत्थम्। ककारोपधात् — तैत्तिडीकम्। दार्दभकम्॥

Siddhanta Kaumudi

Up

ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'संस्कृतम्' अस्मिन् अर्थे <<प्राग्वहतेष्ठक्>> 4.4.1 इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते कुलत्थशब्दात् तथा ककारोपधेभ्यः शब्देभ्यः अपवादत्वेन अण्-प्रत्ययः भवति । यथा - 1. कुलत्थेन संस्कृतम् कौलत्थम् । 2. (ककारोपधस्य उदाहरणम् -) तित्तिडिकेन संस्कृतम् तैत्तिडिकम् ।

Balamanorama

Up

<<कुलत्थकोपधादण्>> - कुलत्थकोपधादण् ।संस्कृतमित्यर्थे तृतीयान्ता॑दिति शेषः । तैन्तिणीकमिति । तिन्तिणीकेन संस्कृतमित्यर्थः ।

Padamanjari

Up

कुले तिष्ठति कुलत्थः, अस्मादेव निपातनात्सकारस्य तकारः । केचित्पुनः सकारमेवाधीयते ॥