पदोत्तरपदं गृह्णाति

4-4-39 पदोत्तरपदं गृह्णाति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

'तत् पदोत्तरपदं गृह्णाति' (इति) समर्थानां प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'पद' यस्य उत्तरपदमस्ति, तादृशात् द्वितीयासमर्थात् 'गृह्णाति' अस्मिन् अर्थे ठक् प्रत्ययः भवति ।

Kashika

Up

पदशब्द उत्तरपदं यस्य तस्मात् पदोत्तरपदशब्दात् तदिति द्वितीयासमर्थाद् गृह्णातीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। पूर्वपदं गृह्णाति पौर्वपदिकः। औत्तरपदिकः। पदान्तादिति नोक्तम् — बहुच्पूर्वान् मा भूदिति॥

Siddhanta Kaumudi

Up

पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यस्य शब्दस्य उत्तरपदं 'पद' इति अस्ति, तस्मात् द्वितीयासमर्थात् 'गृह्णाति' (= स्वीकरोति) अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा - 1. पूर्वपदं गृह्णाति तत् पौर्वपदिकम् सूत्रम् । 2. उत्तरपदं गृह्णाति सः औत्तरपदिकः सिद्धान्तः । एतयोः उदाहरणयोः 'पूर्वपद' तथा 'उत्तरपद' एतौ शब्दौ पदस्य विभागद्वयं निर्दिशतः ।

Balamanorama

Up

<<पदोत्तरपदं गृह्णाति>> - पदोत्तरपदम् । पदशब्द उत्तरपदं यस्य तस्माद्द्वितीयान्ताद्गृह्णातीत्यर्थे ठक्स्यादित्यर्थः ।

Padamanjari

Up

पदग्रहणे स्वरूपं गृह्यते, न सुप्तिङ्न्तमुतरपदस्य पदत्वाव्यभिचाराद्, अत एवाह - पदशब्द उतरपदं यस्येति ॥