4-4-23 चूर्णात् इनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन संसृष्टे
'तेन संसृष्टे' इति चूर्णात् इनि
'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात् चूर्णशब्दात् 'इनि'प्रत्ययः भवति ।
चूर्णशब्दादिनिः प्रत्ययो भवति संसृष्टे। ठकोऽपवादः। चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः चूर्णिनो धानाः॥
चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥
'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'चूर्णम्' अस्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'चूर्ण'शब्दात् इनिप्रत्ययः भवति । यथा - चूर्णेन संसृष्टम् → चूर्ण + इनि → चूर्ण् + इन् [<<यस्येति च>> 6.4.148 इति अकारलोपः] → चूर्णिन् ज्ञातव्यम् - 'इनि' प्रत्यये अन्तिमः इकारः इत्संज्ञकः नास्ति, यतः तस्य इत्संज्ञायाः किमपि प्रयोजनम् न । अत्र अयम् इकारः उच्चारणार्थः उक्तः अस्ति । यदि आचार्यः केवलम् 'इन्' प्रत्ययमवदिष्यत्, तर्हि अन्तिमनकारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा, ततः लोपः च अभविष्यत् । तत् तथा मा भूत्, अतः अत्र अन्ते इकारः स्थापितः अस्ति ।
<<चूर्णादिनिः>> - चूर्णादिनिः ।संसृष्टमित्यर्थे तृतीयान्ता॑दिति शेषः ।
चूर्णए ये संसृष्टास्तेषां चूर्णमस्तीति मत्वर्थीयेनैवेनिना सिद्धम् ? सत्यम् ; तद्रूपविवक्षायां सिद्धम् । संसर्गविवक्षायां तु ठक् प्राप्नोति । अनभिधानं तु दुर्ज्ञानम् ॥