4-4-141 नक्षत्रात् घः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि
नक्षत्रात् छन्दसि संज्ञायाम् घः
'नक्षत्र'शब्दात् वेदेषु संज्ञायाः विषये 'घ' प्रत्ययः स्वार्थे भवति ।
नक्षत्रशब्दाद् घः प्रत्ययो भवति स्वार्थे। समूह इति नानुवर्तते। नक्ष॒त्रिये॑भ्यः स्वाहा॑ (मा०सं०२२.२८)॥
स्वार्थे । नक्षत्रियेभ्यः स्वाहा (न॒क्ष॒त्रिये॑भ्यः॒ स्वाहा॒) ॥
नक्षत्रशब्दात् स्वार्थे (स्वस्यैव अर्थे) वेदेषु संज्ञायाः विषये 'घ'प्रत्ययः कृतः दृश्यते । नक्षत्रम् एव इदम् = नक्षत्र + घ → नक्षत्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति इय्-आदेशः] → नक्षत्र् + इय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → नक्षत्रिय वेदेषु प्रयोगः - (शुक्लयजुर्वेदः, वाजसनेयिसंहिता 22.28) - 'नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहा अहोरात्रेभ्यः स्वाहा' ।
समूह इति नानुवर्तत इति । तेनानिर्दिष्टार्थत्वात्स्वार्थे प्रत्यय उत्पद्यत इति भावः ॥