सर्वदेवात् तातिल्

4-4-142 सर्वदेवात् तातिल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि

Sampurna sutra

Up

index: 4.4.142 sutra: सर्वदेवात् तातिल्


सर्वदेवात् छन्दसि संज्ञायाम् तातिल्

Neelesh Sanskrit Brief

Up

index: 4.4.142 sutra: सर्वदेवात् तातिल्


'सर्व' शब्दात् तथा च 'देव'शब्दात् वेदेषु संज्ञायाः विषये स्वार्थे 'तातिल्' प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.142 sutra: सर्वदेवात् तातिल्


सर्वदेवशब्दाभ्यां तातिल् प्रत्ययो भवति छन्दसि विषये स्वार्थिकः। सर्वतातिम्। देवतातिम्।

Siddhanta Kaumudi

Up

index: 4.4.142 sutra: सर्वदेवात् तातिल्


स्वार्थे । सविता नः सुवतुसर्वतातिम् (स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिम्) । प्रदक्षिणिद्देवतातिमुराणः (प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः) ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.142 sutra: सर्वदेवात् तातिल्


'सर्व' तथा 'देव' एताभ्याम् शब्दाभ्याम् स्वार्थे (स्वस्य अर्थे एव) तातिल्-प्रत्ययः वेदेषु संज्ञायाः विषये कृतः दृश्यते । 'तातिल्' इत्यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा 'ताति' इत्यवशिष्यते ।

सर्वः एव = सर्व + तातिल् → सर्वताति ।

देवः एव = देव + तातिल् → देवताति ।

वेदेषु प्रयोगः -

  1. (सर्वताति-शब्दप्रयोगः) ऋग्वेदः 10.36.14 - स॒वि॒ता न॑: सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायु॑: ।

  2. (देवताति-शब्दप्रयोगः) ऋग्वेदः 3.19.2 - प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ।

Balamanorama

Up

index: 4.4.142 sutra: सर्वदेवात् तातिल्


सर्वदेवात् तातिल् - शम्याः ष्लञ् । शमीशब्दो गौरादिङीषन्तः, तस्मात्षष्ठन्तादवयवे विकारे च ष्लञ् स्यादित्यर्थः । षकारलकारावितौ ।अनुदात्तादेश्चे॑त्यञो ।ञपवादः । शामीलं भस्मेति । शम्या विकार इत्यर्थः । शामीली रुआउगिति । शम्या विकार इत्यर्थः । वरुणप्रघासेषु शमीमय्यः रुआउचः प्रसिद्धाः । अवयवे तु शामीली शाखा ।