4-4-136 मतौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि सहस्रेण सम्मितौ घः
मतौ सहस्रेण छन्दसि संज्ञायाम् घः
'सहस्र'शब्दात् मत्वर्थे वेदेषु संज्ञायाः विषये 'घ'-प्रत्ययः कृतः दृश्यते ।
मत्वर्थे च सहस्रशब्दाद् घः प्रत्ययो भवति। सहस्रमस्य विद्यते सहस्रियः। <<तपःसहस्राभ्यां विनीनी>> ५.२.१०२,<<अण् च>> ५.२.१०३ इत्यस्यापवादः॥
सहस्रशब्दान्मत्वर्थे घः स्यात् । सहस्रमस्यास्तीति सहस्रियः ॥
'मतुप्' इति कश्चन तद्धितप्रत्ययः । <<तदस्यास्त्यस्मिन्निति मतुप्>> 5.2.94 इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते । अस्मिन् अर्थे 'सहस्र'शब्दात् वेदेषु घ-प्रत्ययः कृतः दृश्यते । सहस्रमस्य अस्मिन् वा विद्यते = सहस्र + घ → सहस्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति इय्-आदेशः] → सहस्र् + इय → सहस्रिय । ज्ञातव्यम् - 1. मत्वर्थीयप्रकरणे सहस्रशब्दात् <<तपःसहस्राभ्यां विनीनी>> 5.2.102 इत्यनेन विहितस्य इनि-प्रत्ययस्य अपवादरूपेण इदम् सूत्रम् विहितमस्ति । 2. यद्यपि वर्तमानसूत्रे 'सहस्रेण' इत्यनुवर्तते, तथापि मत्वर्थनिर्देशसामर्थ्यात् अत्र तृतीयासामर्थ्यं न इष्यते ।