4-4-111 पाथोनदीभ्यां ड्यण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि
'तत्र भवे' (इति) छन्दसि संज्ञायाम् पाथोनदीभ्यां ड्यण्
सप्तमीसमर्थात् 'पाथस्'शब्दात् 'नदी'शब्दात् च 'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये ड्यण्-प्रत्ययः कृतः दृश्यते ।
पाथःशब्दाद् नदीशब्दात् च ड्यण् प्रत्ययो भवति तत्र भव इत्येतस्मिन्नर्थे। यतोऽपवादः। पाथसि भवः पा॒थ्यो॒ वृषा॒ (ऋ०६.१६.१५)। चनो॑ दधीत ना॒द्यो गिरो॑ मे (ऋ० २.३५.१)। पाथोऽन्तरिक्षम्॥
तमुत्वा पाथ्यो वृषा (तमु॑त्वा पा॒थ्यो वृषा॑) । चनो दधीत नाद्यो गिरो मे (चनो॑ दधीत ना॒द्यो गिरो॑ मे) । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥
'पाथस्' (= अन्तरिक्षः) तथा 'नदी' - एताभ्यां शब्दाभ्यां 'भवः' अस्मिन् अर्थे वेदेषु ड्यण्-प्रत्ययः कृतः दृश्यते । 1. पाथसि भवः = पाथस् + ड्यण् → पाथस् + य [<<इत्संज्ञालोपः>>] → पाथस् + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → पाथ् + य [<<टेः>> 6.4.143 इति डित्-प्रत्यये परे अङ्गस्य टिलोपः] → पाथ्य पाथसि भवः पाथ्यः । अन्तरिक्षे विद्यमानः इत्यर्थः । यथा - तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनञ्जयं रणेरणे ॥ ऋग्वेदः 6.16.15 ॥ 2. नद्यां भवः = नदी + ड्यण् → नदी + य [<<इत्संज्ञालोपः>>] → नादी + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → नाद् + य [<<टेः>> 6.4.143 इति डित्-प्रत्यये परे अङ्गस्य टिलोपः] → नाद्य नद्यां भवः नाद्यः । यथा - उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ॥ ऋग्वेदः 2.35.1 ॥
पाथोऽन्तरिक्षमिति । पाति भूताद्यवकाशदानेनेति कृत्वा । यद्यपि'पातेर्बलेर्जुट्' , ठुदके थुट्ऽ, ठन्न चेऽ इति अन्नोदकयोः पाथः -शब्दोऽसुनि व्युत्पाद्यते, तथापि बाहुलकादन्तरिक्षेऽपि भवति ॥