6-3-87 तीर्थे ये उत्तरपदे
index: 6.3.87 sutra: तीर्थे ये
तीर्थशब्द उत्तरपदे यत्प्रत्यये परतः समानस्य स इत्ययमादेशो भवति। सतीर्थ्यः। समानतीर्थे वासी 4.4.107 इति यत्प्रत्ययः।
index: 6.3.87 sutra: तीर्थे ये
तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः, एकगुरुकः । समानतीर्थेवासी <{SK1658}> इति यप्रत्ययः ॥
index: 6.3.87 sutra: तीर्थे ये
तीर्थे ये - तीर्थे ये । यशब्दादकारान्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमद्याहार्यम् ।यस्मिन् विधि॑रिति तदादिविधिः । तदाह — यादौ प्रत्यये इति । नाऽत्रयप्रत्ययान्ते तीर्थशब्दे परे इति व्याख्यातुं शक्यते,समानतीत्थे वासी॑ति समानतीर्थशब्दात्कृतसमासादेव वासीति तद्धितार्थे यप्रत्ययविधानात् । स च यप्रत्ययोऽन्तरङ्गे सभावे कृते एव भवति ।समर्थानां प्रथमाद्वे॑ति सूत्रेण परिनिष्ठितादेव तद्धितोत्पत्तेर्वक्ष्यमाणत्वात्कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्त्वात् । अतो युप्रत्ययपरकत्वं समानशब्दस्य कथमित्यत आह — विवक्षिते इति । सतीथ्र्य इति । समाने तीर्थे वासीत्यर्थः । अत्र सामीप्ये सप्तमी । समानशब्दस्त्वेकपर्यायः । तीर्थशब्दो गुरौ, तदाह — एकगुरुक इति । तद्धितार्थे समासप्रवृत्तयो तद्धितं दर्शयति — समानेति ।निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ॑ इत्यमरः ।
index: 6.3.87 sutra: तीर्थे ये
विभाषोदरे ॥ यप्रत्ययान्त इति । पूर्वसूत्रे ये इति यकारादेः प्रत्ययस्य ग्रहणं यप्रत्ययोऽन्ते समीपे यस्य स तथोक्तः । तत्र यदा सभावः, तदा सोदराद्यः, यदा तु न तदा समानोदरे शयितः इति यत् ॥