दध्नष्ठक्

4-2-18 दध्नः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र संस्कृतं भक्षाः

Sampurna sutra

Up

तत्र संस्कृतं भक्षाः (इति) दध्नः ठक्

Neelesh Sanskrit Brief

Up

दधिशब्दात् 'संस्कृतं भक्षाः' इत्यस्मिन् अर्थे ठक् -प्रत्ययः भवति ।

Neelesh English Brief

Up

The word दधि gets the प्रत्यय ठक् in the meaning of संस्कृतं भक्षाः.

Kashika

Up

दधिशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दधनि संस्कृतं दाधिकम्। ननु च संस्कृतार्थे प्राग् वहतेष्ठकं ४.४.१ वक्ष्यति, तेनैव सिद्धम् ? न सिध्यति। दध्ना हि तत् संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम्, इह तु दधि केवलमाधारभूतम्, द्रव्यान्तरेण लवणादिना संस्कारः क्रियते॥

Siddhanta Kaumudi

Up

दध्नि संस्कृतं दाधिकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<संस्कृतं भक्षाः>> 4.2.16 इत्यस्मिन् अर्थे 'दधि'शब्दात् ठक् प्रत्ययः भवति । दध्नि संस्कृतम् दाधिकम् । ज्ञातव्यम् - प्राग्वहतीय-अधिकारे <<संस्कृतम्>> 4.4.3 इत्यनेन अपि दधि-शब्दात् ठक्-प्रत्ययः भवति, परन्तु तत्र तृतीयासमर्थात् एतत् प्रत्ययविधानं कृतमस्ति, अतः तत्र 'दध्ना संस्कृतम्' इति अर्थः स्वीकर्तव्यः । अत्र तु 'दध्नि संस्कृतम्' इति अर्थः अपेक्ष्यते ।

Balamanorama

Up

<<दध्नष्ठक्>> - दध्नष्ठक् । सप्तम्यन्ताद्दधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक् स्यादित्यर्थः । अणोऽपवादः । दाधिकमिति । ठकि इकादेशेयस्येति चे॑ति इकारलोपः । इह दध्नि अधिकरणे संस्कारो लवणादिना भवति । प्राग्वहतेरित्यत्र तु 'संस्कृतम्' इति तृतीयान्ताठ्ठग्वक्ष्यते ।

Padamanjari

Up

इह तु दधि केवलमाधारभूतमिति । यथा शूरे संस्क्रियमाणस्यमांसस्य शूलम् । यद्यप्यत्र दध्यपि संस्कारकम्, तथापि न तद्विवक्षितम्, किन्तु तदाधारस्य द्रव्यान्तरेण यः संस्कारः स एव विवक्षित इति भावः ॥