6-4-170 न मपूर्वः पत्ये अवर्मणः असिद्धवत् अत्र आभात् भस्य प्रकृत्या अणि अन्
मपूर्वोऽन् अवर्मणोऽणि परतोऽपत्येऽर्थे न प्रकृत्या भवति। सुषाम्णोऽपत्यं सौषामः। चान्द्रसामः। मपूर्व इति किम्? सौत्वनः। अपत्य इति किम्? चर्मणा परिवृतो रथः चार्मणः। अवर्मण इति किम्? चक्रवर्मणोऽपत्यं चाक्रवर्मणः॥ मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यम्॥ हितनाम्नोऽपत्यं हैतनामः, हैतनामनः॥
मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् ? सौत्वनः अपत्ये किम् ? चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः ।<!वा हितनाम्न इति वाच्यम् !> (वार्तिकम्) ॥ हितनाम्नोऽपत्यं हैतनामः - हैतनामनः ॥
<<न मपूर्वोऽपत्येऽवर्मणः>> - न मपूर्वो ।ञपत्येऽवर्मणः । भाद्रसाम इति । भद्रसाम्नो ।ञपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान्न प्रकृतिभावः । सौत्वन इति । सुत्वनोऽपत्यमिति विग्रहः । मपूर्वत्वाऽभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः' इत्यणि टिलोपः । अण आपत्यत्वाऽभावात्प्रकृतिभावः । वा हितनाम्न इति । 'न मपूर्वः' इति प्रतिषेध॑इति शेषः ।