4-2-11 पाण्डु कम्वलात् इनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन परिवृतः रथः
'परिवृतो रथः' (इति) पाण्डुकम्बलात् इनिः
'पाण्डुकम्बल'शब्दात् 'परिवृतः' अस्मिन् अर्थे रथं निर्देशयितुम् इनि प्रत्ययः भवति ।
The word पाण्डुकम्बल gets the प्रत्यय 'इनि' in the meaning of 'परिवृतो रथः'.
पाण्डुकम्बलशब्दात् तृतीयासमर्थात् परिवृतो रथ इत्येतस्मिन्नर्थ इनिः प्रत्ययो भवति। अणोऽपवादः। पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिनः। पाण्डुकम्बलशब्दो राजास्तरणस्य वर्णकम्बलस्य वाचकः। मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम्॥
पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ॥
<<परिवृतो रथः>> 4.2.10 अस्मिन् अर्थे 'पाण्डुकम्बल' शब्दात् 'इनि' प्रत्ययः भवति । अस्मिन् प्रत्यये नकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य प्रक्रियायां लोपः भवति । पाण्डुकम्बलेन परिवृतो रथः = पाण्डुकम्बल + इन् → पाण्डुकम्बल् + इन् [<<यस्येति च>> 6.4.148 इति अन्तिमवर्णलोपः] → पाण्डुकम्बलिन्
<<पाण्डुकम्बलादिनिः>> - पाण्डुकम्बलादिनिः । तेनेति, परिवृतो रथ इति चानुवर्तते । इनिप्रत्यये नकारादिकार उच्चारणार्थः । ननु 'अत इनिठनौ' इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह — अणो निवृत्त्यर्थमिति ।
मत्वर्थीयेनैव सिद्ध इति । यो हे येन परिवृतः स तस्यास्ति । अणो निवृत्यर्थमिति । यद्येतन्नारभ्येत, परिवृतो रथ इति विवक्षायां पूर्वेणाण् प्रसज्येत ॥