पूतक्रतोरै च
4-1-36 पूतक्रतोः ऐ च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात्
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
'पूतक्रतु' इति शब्दात् स्त्रीत्वं द्योतयितुं ङीप्-प्रत्ययः, तत्सन्नियोगेन च प्रकृतेः ऐकारादेशः विधीयते ।
Kashika
Up
पूतक्रतुशब्दस्य स्त्रियामैकारश्चान्तादेशो भवति, ङीप् प्रत्ययः। पूतक्रतोः स्त्री पूतक्रतायी। त्रय एते योगाः पुंयोगप्रकरणे द्रष्टव्याः। यया हि पूताः क्रतवः पूतक्रतुः सा भवति॥
Siddhanta Kaumudi
Up
।<!इयं त्रिसूत्री पुंयोगे एवेष्यते !> (वार्तिकम्) ॥ पूतक्रतोः स्त्री पूतक्रतायी । यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
पूतक्रतु (= पूतः क्रतुः येन सः = The one who has purified the sacrifice) इति प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते; तथा च प्रक्रियायाम् पूतक्रतु-शब्दस्य उकारस्य ऐकारादैशः अपि भवति । अस्य सूत्रस्य प्रयोगः केवलं पुंयोगे एव भवति । इत्युक्ते, पूतक्रतोः पत्न्याः निर्देशार्थम् एव इदं सूत्रं प्रयुज्यते ।
पूतः क्रतुः (= यज्ञः) येन सः = पूतक्रतुः (The one who has purified the sacrifice) । तस्य स्त्री
= पूत + क्रत् ऐ + ङीप् [<<पूतक्रतोरै च>> 4.1.36 इति ङीप्-प्रत्ययः, ऐकारश्च अन्तादेशः]
→ पूत + क्रत् ऐ + ई [इत्संज्ञालोपः]
→ पूत + क्रत् आयी [<<एचोऽयवायावः>> 6.1.78 इति आयादेशः]
→ पूतक्रतायी
अनेन प्रकारेण पूतक्रतोः स्त्री = पूतक्रतायी इति शब्दः सिद्ध्यति ।
वार्त्तिकम् — <!त्रिसूत्री पुंयोगे एव !>
प्रकृतसूत्रम्, तथा च अग्रे विद्यमाने द्वे सूत्रे — <<वृषाकप्यग्निकुसितकुसिदानामुदात्तः>>
4.1.37 तथा च <<मनोरौ वा>>
4.1.38 — इति त्रीणि सूत्राणि केवलं
पुंयोगे एव स्त्रीप्रत्ययं विदधति — इति अस्य वार्त्तिकस्य अर्थः ।
पुंलिङ्गवाचिनि शब्दे गुणस्य आरोपणं कृत्वा ततः 'तस्य पत्नी' इत्यस्मिन् अर्थे स्त्रीप्रत्ययस्य विधानम् — इति पुंयोगः नाम्ना ज्ञायते । यथा, प्रकृतसूत्रस्य सन्दर्भे
यः मनुष्यः यज्ञं पूतं करोति तस्य पत्नी (या स्वयं यज्ञं पूतं करोति उत न करोति तद् अप्रस्तुतम्) — इत्यस्य निर्देशार्थम् एव ङीप्-प्रत्ययः भवति; अतः अत्र
पूतक्रतोः पत्नी पूतक्रतायी इति वाक्यं दीयते । या स्त्री स्वयं यज्ञं पूतं करोति, तस्याः निर्देशार्थम् तु प्रकृतसूत्रं नैव प्रयुज्यते यतः तत्र पुंयोगस्य निर्देशः नास्ति । इत्युक्ते;
पूतः क्रतुः यया सा इत्यत्र प्रकृतसूत्रेण (अन्येन वा केनचित् सूत्रेण) ङीप्-प्रत्ययः नैव भवति; अतः तत्र
इयं पूतक्रतुः ब्राह्मणी इत्येव निर्देशः सम्भवति । अग्रे विद्यमानयोः द्वयोः अपि सूत्रयोः विषये एवमेव ज्ञेयम् ।
Balamanorama
Up
<<पूतक्रतोरै च>> - पूतक्रतोरै च । 'ऐ' इति लुप्तप्रथमाकम् । पूतक्रतुशब्दात्स्त्रियां ङीप्स्यात्, प्रकृतेरैकारोऽन्तादेशश्चेत्यर्थः ।इयं त्रिसूत्रीति । वार्तिकमिदम् । पूतक्रतोरित्यादिसूत्रत्रयं पुंयोगात्स्त्रियां वृत्तावेवेत्यर्थः । पूतक्रतायीति । पूतः क्रतुर्येन स पूतक्रतुः, तस्य स्त्रीत्यर्थे ङीप्, तकारादुकारस्य ऐकारः , तस्य आयादेश इति भावः । पुंयोग इत्यस्य प्रयोजनमाह — ययेति । वृषाकप्यग्नि ।ऐ चे॑त्यनुवर्तते । तदाह — एषामिति ।
Padamanjari
Up
यद्ययमैकारः प्रत्ययः स्यादुतरसूत्रे उदातवचनमनर्थकं स्यात्; प्रत्ययत्वादेव सिद्धेः । तस्मादादेशोऽयं विज्ञायत इत्याह - ऐकारश्चान्तादेश इति । त्रय एते योगा इति ।'पुंयोगादाख्याम्' इत्यत्रानुवर्तयितव्या इत्यर्थः । इह करणसामर्थ्याच्च ङीप्सहिता एवानुवर्तन्ते, तेन यदा पुंयोगात्स्त्रियां पूतक्रत्वादयो वर्तन्ते तदा ङीषं बाधित्वा ऐकारादिसहितो ङीब् भवति ॥