वृषाकप्यग्निकुसितकुसिदानामुदात्तः
4-1-37 वृषाकप्यग्निकुसितकुसिदानाम् उदात्तः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ऐ
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
वृषाकपि, अग्नि, कुसित, कुसिद - एतेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः, तत्सन्नियोगेन च प्रकृतेः उदात्तः ऐकारादेशः विधीयते ।
Kashika
Up
वृषाकप्यादीनामुदात्त ऐकारादेशो भवति स्त्रियाम् , ङीप् च प्रत्ययः। वृषाकपिशब्दो मध्योदात्त उदात्तत्वं प्रयोजयति। अग्न्यादिषु पुनरन्तोदात्तेषु स्थानिवद्भावादेव सिद्धम्। वृषाकपेः स्त्री वृ॒षा॒क॒पायी॑। अ॒ग्नायी॑। कु॒सि॒तायी॑। कु॒सी॒दायी॑। पुंयोग इत्येव — वृ॒षाक॑पिः स्त्री॥
Siddhanta Kaumudi
Up
एषामुदात्त ऐ आदेशः स्यात् ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौर्योरिति च । अग्नायी । कुसितायी । कुसिदायी । कुसिदशब्दो ह्रस्वमध्यो नतु दीर्घमध्यः ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
वृषाकपि (= हरः / विष्णुः), अग्नि, कुसित, कुसिद एतेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते; तथा च प्रक्रियायाम् एतेषां शब्दानाम् अन्तिमवर्णस्य उदात्तसंज्ञकः ऐकारादैशः अपि भवति । अस्य सूत्रस्य प्रयोगः केवलं पुंयोगे एव भवति । इत्युक्ते, वृषाकप्यादीनाम् पत्न्याः निर्देशार्थम् एव इदं सूत्रं प्रयुज्यते । क्रमेण उदाहरणानि एतानि —
1. वृषाकपेः पत्नी = वृषाकप् + ऐ + ङीप् → वृषाकप् + ऐ + ई → वृषाकपायी । लक्ष्मीः तथा गौरी इत्येतयोः अर्थे अयं शब्दः प्रयुज्यते ।
2. अग्नेः पत्नी = अग्न् + ऐ + ङीप् → अग्न् + ऐ + ई → अग्नायी ।
3. कुसितस्य पत्नी = कुसित् + ऐ + ङीप् → कुसित् + ऐ + ई → कुसितायी ।
4. कुसिदस्य पत्नी = कुसिद् + ऐ + ङीप् → कुसिद् + ऐ + ई → कुसिदायी ।
उदात्तस्वरविधानस्य प्रयोजनम्
प्रकृतसूत्रेण
ऐ इति
उदात्तसंज्ञकः आदेशः विधीयते ।
अस्य प्रयोजनम् वृषाकपायी इति शब्दस्य स्वरविधानसमये दृश्यते ।
वृषाकपि इति शब्दे मूलरूपेण <<लघावन्ते द्वयोश्च बह्वषो गुरुः>> (फिट्सूत्रम् 2.19) इत्यनेन षकारोत्तरः आकारः उदात्तसंज्ञकः अस्ति, अन्ये वर्णाः अनुदात्ताः सन्ति । अस्यां स्थितौ
वृषाकपायी इत्यत्र पकारोत्तस्य आकारस्य उदात्तसंज्ञाविधानार्थम् प्रकृतसूत्रेण ऐकारः उदात्तसंज्ञकः विधीयते । एकवारं ऐकारः उदात्तः विधीयते चेत् तस्य स्थाने जायमानः आकारः अपि स्थानिवद्भावेन उदात्तसंज्ञां प्राप्नोति ।
अन्येषु त्रिषु शब्देषु अन्तिमस्वरः (इत्युक्ते,
अग्नि इत्यत्र नकारोत्तरः इकारः,
कुसित इत्यत्र तकारोत्तरः अकारः, तथा च
कुसिद इत्यत्रापि तकारोत्तरः अकारः) मूलरूपेणैव उदात्तसंज्ञकः अस्ति, अतः तस्य स्थाने जायमानः ऐकारादेशः अपि स्थानिवद्भावेन उदात्तसंज्ञाम् एव स्वीकरोति । इत्युक्ते, एतेषां त्रयाणाम् शब्दानां विषये ऐकारस्य उदात्तसंज्ञा तादृशी एव सम्भवति, तदर्थम् प्रकृतसूत्रे उदात्तग्रहणम् नैव आवश्यकम् । ऐकारस्य उदात्तसंज्ञायां प्राप्तायां पुनः स्थानिवद्भावनेन तत्स्थाने जायमानः आकारः अपि उदात्तसंज्ञकः भवति । अनेन प्रकारेण
अग्नायी इत्यत्र नकारोत्तरः आकारः,
कुसितायी इत्यत्र तकारोत्तरः आकारः, तथा च
कुसिदायी इत्यत्र दकारोत्तरः आकारः — एते वर्णाः उदात्तसंज्ञकाः भवन्ति ।
वार्त्तिकम् — <!त्रिसूत्री पुंयोगे एव !>
प्रकृतसूत्रात् पूर्वं विद्यमानं सूत्रम् <<पूतक्रतोरै च>>
4.1.36, प्रकृतसूत्रात् अनन्तरं विद्यमानं सूत्रम् <<मनोरौ वा>>
4.1.38 तथा च प्रकृतसूत्रम् — इति त्रीणि सूत्राणि केवलं
पुंयोगे एव स्त्रीप्रत्ययं विदधति — इति अस्य वार्त्तिकस्य अर्थः ।
पुंलिङ्गवाचिनि शब्दे गुणस्य आरोपणं कृत्वा ततः 'तस्य पत्नी' इत्यस्मिन् अर्थे स्त्रीप्रत्ययस्य विधानम् — इति पुंयोगः नाम्ना ज्ञायते । यथा, प्रकृतसूत्रस्य सन्दर्भे
वृषाकपेः पत्नी — इत्यस्य निर्देशार्थम् एव ङीप्-प्रत्ययः भवति; अतः अत्र
वृषाकपेः पत्नी वृषाकपायी इति वाक्यं दीयते । या स्त्री स्वयं
वृषाकपिः इति नाम्ना ज्ञायते, तस्याः निर्देशार्थम् तु प्रकृतसूत्रं नैव प्रयुज्यते — यतः तत्र पुंयोगस्य निर्देशः नास्ति । अतः तत्र
इयं वृषाकपिः इत्येव निर्देशः सम्भवति । अन्ययोः द्वयोः सूत्रयोः विषये अपि एतादृशमेव ज्ञेयम् ।
Balamanorama
Up
<<वृषाकप्यग्निकुसितकुसीदानामुदात्तः>> - वृषाकपायीति । ङीप्, प्रकृतेरुदात्त ऐकारोऽन्तादेशः, तस्य आयादेशः, तस्य एकारस्थानिकत्वात्तदाकारोऽप्युदात्तः,अनुदात्तं पदमेकवर्ज॑मित्यवशिष्टानामचामनुदात्तत्वम् । उदात्त इति किम् ।लघावन्ते द्वयोश्च वह्वषो गुरुः॑ इति वृषाकपिशब्दो मध्योदात्तः,नाहमिन्द्राणि रारण सख्युर्वृषाकपेः॑ इति यथा । अन्ते एकस्मिन् लघौ सति द्वयोर्वा लध्वोः सतोः पूर्वो बह्वच्कस्य गुरुरुदात्तः स्यादिति तदर्थः । ततश्च षकारादाकारस्य उदात्तत्वेअनुदात्तं पदमेकवर्जमित्यवशिष्टानामचामनुदात्तत्वमिति स्थितिः । तथा च पकारादिकारस्यानुदात्तत्वात्तत्स्थाने एकारोऽनुदात्तः स्यात् । ततस्च तदादेशभूतायादेशाकारस्याप्यनुदात्तत्वं स्यात् । अतोऽत्र उदात्तत्वविधिः । ग्नायीति । 'अग्निर्मूर्धा' इत्यादौ अग्निशब्दोऽन्तोदात्तः, ततो ङीप्, प्रकृतेरैकारोऽन्तादेशः, स च भवन्नान्तर्यादुदात्त एव भवति । अतस्तदादेशाऽऽयादेशाकारस्य उदात्तत्वसिद्धेरुदात्त इत्येतदग्निशब्दे अन्वयं न लभते, प्रयोजनाऽभावात् । कुसितायी कुसिदायीति । कुसितकुसिदे अव्युत्पन्नप्रातिपदिके देवताविशेषस्य नामधेये, फिट्स्वरेणान्तोदात्ते । ततो ङीप् ऐकारश्चान्तादेशः, सच भवन्नान्तर्यादुदात्त एवेति कुसितकुसिदशब्दयोरपि उदात्त इत्यस्य नान्वय इति वृत्त्यादिग्रन्थेषु स्थितम् । अत एवाह — न तु दीर्घमध्य इति । दीर्घमध्यत्वे हि 'लघावन्ते' इति मध्योदात्ततया शिष्टस्वरेण दकारादकारस्यानुदात्ततया तत्स्थाने ऐकारस्यानुदात्ततया तत्स्थाने आयाकारस्यानुदात्तत्वापत्त्या तन्निवृत्त्यर्थं तत्राप्युदात्तग्रहणस्यावश्यकत्वादुदाहृतवृत्त्यादिग्रन्थविरोधः स्पष्ट एवेति भावः ।
Padamanjari
Up
वृषाकपिशब्दो मध्योदात इति ।'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति वचनात् । अस्यार्थः - अन्ते एकस्मिन्लघौ द्वयोश्च लघ्वोः परतो बह्वषः शब्दस्य गुरुरुदातो भवतीति ।'बह्वषः' इति वह्वच इत्यर्थः । योऽस्माकं चकारेण प्रत्याहारः सोऽन्येषां षकारेण । अग्न्यादिषु पुनरिति ।'फिषः' इत्यनेनाग्न्यादीनामन्तोदातत्वम् । फिषिति प्रातिपदिकस्यान्याचार्यसंज्ञा । ये तु कुसीदेति मध्ये गुरुमधीयते तेषाम्'लघावन्ते' इति मध्योदातप्रसङ्गः ॥