यूनश्च कुत्सायाम्

4-1-167 यूनः च कुत्सायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

यूनः कुत्सायां युवा वा

Neelesh Sanskrit Brief

Up

यः युवासंज्ञकः अस्ति, तस्य निन्दने / निर्भत्सेन विकल्पेनैव युवासंज्ञा भवति, नित्यम् न ।

Kashika

Up

कुत्सायां गम्यमानायां यूनो वा युवसंज्ञा भवति। निवृत्तिप्रधानो विकल्पः। युवसंज्ञायां प्रतिषिद्धायां पक्षे गोत्रसंज्ञैव भवति, प्रतिपक्षाभावात्। गार्ग्यो जाल्मः, गार्ग्यायणो वा। वात्स्यो जाल्मः, वात्स्यायनो वा। दाक्षिर्जाल्मः, दाक्षायणो वा। कुत्सायामिति किम्? गार्ग्यायणः॥

Siddhanta Kaumudi

Up

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यः युवासंज्ञक अस्ति, तस्य 'कुत्सायाम् ' (इत्युक्ते, निर्भत्सने) विकल्पेनैव युवासंज्ञा भवति, पक्षे गोत्रसंज्ञा च विधीयते । यथा - अर्जुनस्य प्रपौत्रः जनमेजयः । यदि जनमेजयस्य पिता परीक्षितः जीवितः अस्ति, तर्हि जनमेजयः अर्जुनस्य 'युवापत्यम्' अस्तीति उच्यते । परन्तु कस्मिंश्चित् वाक्ये जनमेजस्य निर्भत्सना कर्तव्या, तर्हि युवसंज्ञायाः विकल्पेन बाधं कृत्वा 'जाल्मः अर्जुनस्य गोत्रापत्यम् जनमेजयः' इत्यपि वक्तुं शक्यते । अस्य सूत्रस्य किम् प्रयोजनम्? युवापत्यं दर्शयितुम् गोत्रापत्यं च दर्शयितुम् केषुचन स्थलेषु भिन्नौ प्रत्ययौ भवतः । यथा, 'गर्गस्य गोत्रापत्यम्' अस्मिन् अर्थे गर्ग-शब्दात् <<गर्गादिभ्यः यञ्>> 4.1.105 इत्यनेन यञ्-प्रत्ययं कृत्वा 'गार्ग्य' इति प्रातिपदिकं जायते । परन्तु युवापत्यनिर्देशे तु <<यञिञोश्च>> 4.1.101 इत्यनेन गर्गशब्दात् फक्-प्रत्ययं कृत्वा 'गार्ग्यायन' इति रूपं जायते । अस्यैव उदाहरणम् काशिकाकारः ददाति - 'गार्ग्यः जाल्मः गार्ग्यायणः वा' । 'जाल्म' अयं शब्दः अत्र 'कुत्सायाम्' प्रयुक्तः अस्ति । अस्यां स्थितौ वर्तमानसूत्रेण विकल्पेन युवासंज्ञायाः निषेधं कृत्वा गोत्रसंज्ञा विधीयते, अतः यञ्-प्रत्ययं कृत्वा 'गार्ग्य' इति रूपं सिद्ध्यति । पक्षे फक्-प्रत्ययं कृत्वा 'गार्ग्यायण' इत्यपि रूपं जायते । विशेषः - यद्यपि काशिकाकारः एतत् सूत्रम् भिन्नरूपेण वदति, तथापि कौमुद्याम् एतत् सूत्रम् <<वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति>> 4.1.165 इत्यत्र वार्त्तिकरूपेण दीयते ।

Balamanorama

Up

Padamanjari

Up

निवृत्तिप्रधानो विकल्प इति । न पुनः प्रवृत्तिप्रधान इति; पूर्वमेव प्रवृतत्वात् । यदाह - यूनश्चेति । न ह्यप्रवृतायां तस्यामेष निर्देश उपपद्यते । ननु च निवृत्तिरप्यनिर्वृता या न शक्यते कर्तुम्, यो हि भुक्तवन्तं ब्रूयान्मा भुक्था इति किं तेन कृतं स्यात् । तस्माद्'यूनश्च' इति निर्देशो युवसंज्ञाविषयो ल7णार्थः । जीवद्वंश्यस्य चतुर्थादेरिति, न तु युवसंज्ञाशिष्टस्य निर्देश इति वक्तव्यम् । एवं च प्रवृत्तिविकल्पोऽप्युपपद्यते, सा त प्रवृत्तिरसत्यपि सूत्रे लभ्यत इति मत्वा निवृत्तिप्रधान इत्युक्तम् । युवसंज्ञायां प्रतिषिद्धायामिति । तस्या अभावपक्ष इत्यर्थः । गार्ग्यो जाल्म इति । का पुनरत्र कुत्सा ? गोत्रत्वारोपिणामेव, अजीवद्वंश्या हि गोत्रसंज्ञकाः, ते प्रायेण चरमवयसो भवन्तीति तदारोपे भवति कुत्सा ॥