जनपदशब्दात् क्षत्रियादञ्

4-1-168 जनपदशब्दात् क्षत्रियात् अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

तस्य अपत्यम् (इति) क्षत्रियात् जनपदशब्दात् अञ्

Neelesh Sanskrit Brief

Up

क्षत्रियवाची यः शब्दः जनपदस्य नामरूपेण अपि प्रयुज्यते, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।

Kashika

Up

जनपदशब्दो यः क्षत्रियवाची, तस्मादपत्येऽञ् प्रत्ययो भवति। पाञ्चालः। ऐक्ष्वाकः। वैदेहः। जनपदशब्दादिति किम्? द्रुह्योरपत्यं द्रौह्यवः। पौरवः। क्षत्रियादिति किम्? ब्राह्मणस्य पञ्चालस्यापत्यं पाञ्चालिः। वैदेहिः॥ क्षत्रियसमानशब्दाज्जनपदशब्दात्तस्य राजन्यपत्यवत्॥ पञ्चालानां राजा पाञ्चालः। वैदेहः। मागधः॥

Siddhanta Kaumudi

Up

जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । दाण्डिनायन-<{SK1145}> इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ ॥<!क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् !> (वार्तिकम्) ॥ तद्राजमाचक्षामस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् ॥ पञ्चालानां राजा पाञ्चालः ।<!पूरोरण्वक्तव्यः !> (वार्तिकम्) ॥ पौरवः ।<!पाण्डोर्ड्यण् !> (वार्तिकम्) ॥ पाण्ड्यः ॥

Laghu Siddhanta Kaumudi

Up

जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। <<क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्>> (वार्त्तिकम्) । पञ्चालानां राजा पाञ्चालः। <<पूरोरण् वक्तव्यः>> (वार्त्तिकम्)। पौरवः। <<पाण्डोर्ड्यण्>> (वार्त्तिकम्)। पाण्ड्यः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

जनपदशब्दोयः क्षत्रियवाचीति । नन्वेते पञ्चालादयः शब्दाः क्षत्रियशब्दा एव, तत्सम्बन्धातु'तस्य निवासः' इति तद्धिते कृते'जनपदे लुप्' इति च लुपि जनपदे वर्तन्ते, तत्कथमवरकालया जनपदशब्दतया नित्यक्षत्रियशब्दता लक्ष्यते ? कः पुनराह - क्षत्रियसम्बन्धादेव ते जनपदे वर्तन्त इति, सूत्रकारस्तावत्'लुब्योगाप्रख्यानात्' इति वदन् क्षत्रियेष्विव जनपदेऽपि स्वाभाविका पञ्चालादिशब्दस्य प्रवृत्तिरित्याह - पाञ्चाल इति । यदपि पञ्चालादयः शब्दा जनपदे बहुवचनान्ताः, क्षत्रिये त्वेकवचनान्ताः, तथापि प्रातिपदिकस्य विशेषणं जनपदत्वम्, न सुबन्तस्येत्येकवचनान्तादपि प्रत्ययो भवत्येव । ऐक्ष्वाक इति । इक्ष्वाकुशब्दस्य दाण्डिनायनादिसूत्रे टिलोपो निपातितः । द्रौह्यव इति । क्षत्रियवचन एवायं न जनपदशब्दः । ब्राह्मणस्य पञ्चालस्येति । बाह्वादिप्रभृतिषु येषां दर्शनमित्युक्तत्वात्कथमत्र प्रसङ्ग इति चिन्त्यम् । क्षत्रियसमानशब्दादिति । समानः शब्दो यस्य यमानशब्दः, क्षत्रियेण यस्य समानशब्दस्तस्माज्जनपदशब्दात् तस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत्प्रत्ययो भवति । अवृद्धादपीति प्राप्तस्य वुञोऽपवादः । क्वचितु वृतावेवाय ग्रन्थः पठ।ल्ते । मागध इति ।'द्व्यञ्मगध' इत्यण् ॥