4-1-161 मनोः जातौ अञ्यतौ षुक् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
index: 4.1.161 sutra: मनोर्जातावञ्यतौ षुक् च
मनोः जातौ अञ्-यतौ, षुक् (आगमः) च
index: 4.1.161 sutra: मनोर्जातावञ्यतौ षुक् च
'मनु'शब्दात् जातिनिर्देशे कर्तव्ये 'अञ्' तथा 'यत्' प्रत्ययौ भवतः, तथा 'मनु'शब्दस्य षुक्-आगमः अपि भवति ।
index: 4.1.161 sutra: मनोर्जातावञ्यतौ षुक् च
मनुशब्दादञ् यतित्येतौ प्रत्यौ भवतः, तत् सन्नियोगेन षुगागमः, समुदायेन चेज् जातिर्गम्यते। मानुषः, मनुष्यः। जातिशब्दावेतौ। अपत्यार्थोऽत्र न अस्त्येव। तथा च मानुषाः इति बहुषु न लुग् भवति। अपत्यविवक्षायां तु अणैव भवितव्यम्। मानवी प्रजा। अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस् तेन सिध्यति माणवः।
index: 4.1.161 sutra: मनोर्जातावञ्यतौ षुक् च
समुदायार्थो जातिः । मानुषः - मनुष्यः ॥
index: 4.1.161 sutra: मनोर्जातावञ्यतौ षुक् च
मनोर्जातावञ्यतौ षुक् च - मनोर्जातौ । मनुशब्दादञ् यत् एतौ प्रत्ययौ स्तः, तयाः परयोर्मनुशब्दस्य षुगागमश्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामित्यर्थः । तदाह — समुदायार्थो जातिरिति । नात्राऽपत्यग्रहणं संबध्यत इति भावः । अन्यथा 'मानुषा' इत्यत्रयञञोश्चे॑ति लुक्स्यादिति बोध्यम् ।
index: 4.1.161 sutra: मनोर्जातावञ्यतौ षुक् च
तथा चेति । अपत्यार्थे तु सति'यञञोश्च' इति बहुषु लुक् प्रसज्येत; लौकिकस्य गोत्रस्य तत्र ग्रहणात् । अपत्ये कुत्सित इति । णत्वविधानार्थमिदम्, अणः सिद्धत्वात् । न च'न दण्डमाणवान्तेवासिषु' इति णत्वसिद्धिः, अर्थविशेषस्यानिश्चायाद् । अनधीतवेदत्वान्मूढत्वम् । विहिताकरणात्प्रतिषिद्धसेवनाच्च कुत्सितत्वम् ॥