भूते च

3-3-140 भूते च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् लिङ्निमित्ते लृङ् क्रियातिपत्तौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लिङ्निमित्ते लृङ्क्रियातिपत्ताविति सर्वमनुवर्तते। पूर्वेण भविष्यति विहितः, संप्रति भूते विधीयते। भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां लृङ् प्रत्ययो भवति। <<उताप्योः०>> ३.३.१५२ इत्यारभ्य लिङ्निमित्तेषु विधानमेतत्। प्राक् ततो विकल्पं वक्ष्यति। दृष्टो मया भवत्पुत्रोऽन्नार्थी चङ्क्रम्यमाणः, अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्, तदाभोक्ष्यत। न तु भुक्तवान्, अन्येन पथा स गतः॥

Siddhanta Kaumudi

Up

पूर्वसूत्रं संपूर्णमनुवर्तते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भूते च>> - भूते च । अधिकारोऽयम् । अनुवर्तते इति । तथा च लिङ्निमित्ते लृङ् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः ।

Padamanjari

Up

अन्नार्थी चङ्क्रम्यमाण इति । भोक्तुकामः क्षुधा कुटिलं गच्छन्नित्यर्थः । अपरश्च द्विजो ब्राह्मणार्थीति । चङ्क्रम्यमाणो दृष्ट इत्यनुषड्गः । ब्राह्मणार्थो भोक्तारं मार्गयमाण इत्यर्थः । सोऽपि संभ्रमात्कुटिलं गच्छति । ततः किमित्यत आह - यदीत्यादि । यदि दृष्टोऽभविष्यदिति क्वचित्पठ।ल्ते ततु'यदायद्योरुपसंख्यानम्' इति यदिलिङ्निमितत्वात् लृङ्, किं तूतरसूत्रेण विकल्पितः । दृष्ट इत्येव तु पाठो युक्तः । न तु भुक्तवानिति । क्रियातिपतिं दर्शयति । तत्र हेतुः - अन्येन पथा स गत इति ॥