हेतुहेतुमतोर्लिङ्

3-3-156 हेतुहेतुमतोः लिङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Kashika

Up

index: 3.3.156 sutra: हेतुहेतुमतोर्लिङ्


हेतुः कारणम्। हेतुमत् फलम्। हेतुभूते हेतुमति चार्थे वर्तमानाद् धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। दक्षिणेन चेद् यायान्न शकटं पर्याभवेत्। यदि कमलकमाह्वयेन्न शकटं पर्याभवेत्। दक्षिणेन चेद् यास्यति न शकटं पर्याभविष्यति। तत्र विभाषाग्रहणं तावदनन्तरम् एव अनुवर्तते। लिङिति वर्तमाने पुनर्लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थम्। तेन इह न भवति, हन्तीति पलायते, वर्षतीति धावति। क्रियातिपत्तौ लृङ् भवति।

Siddhanta Kaumudi

Up

index: 3.3.156 sutra: हेतुहेतुमतोर्लिङ्


वा स्यात् कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति ।<!भविष्यत्येवेष्यते !> (वार्तिकम्) ॥ नेह । हन्ताति पलायते ॥

Laghu Siddhanta Kaumudi

Up

index: 3.3.156 sutra: हेतुहेतुमतोर्लिङ्


वा स्यात् । कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति । भविष्यत्येवेष्यते (वार्त्तिकम्) । नेह । हन्तीति पलायते ॥ विधिनिमन्त्रणेति लिङ् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । यजेत ॥ निमन्त्रणं नियोगकरणम्, आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । इह भुञ्जीत ॥ आमन्त्रणं कामचारानुज्ञा । इहासीत ॥ अधीष्टं सत्कारपूर्वको व्यापारः । पुत्रमध्यापयेद्भवान् ॥ संप्रश्नः संप्रधारणम् । किं भो वेदमधीयीय उत तर्कम् ॥ प्रार्थनं याच्ञा । भो भोजनं लभेय । एवं लोट् ॥ इटि लकारार्थप्रक्रिया ॥ इति तिङन्तं समाप्तम् ॥

Balamanorama

Up

index: 3.3.156 sutra: हेतुहेतुमतोर्लिङ्


हेतुहेतुमतोर्लिङ् - हेतुहेतुमतोर्लिङ् । पूर्वसूत्राद्विभाषानुवृतिंत मत्वा आह — वा स्यादिति । पक्षे लृट् । हेतुभूते फलभूते वाऽर्थे वर्तमानाद्धातोर्लिङ् वा स्यादिति यावत् । भविष्यत्येवेति । लिङित्यनुवर्तमाने पुनर्लिङ्ग्रहणादिति भावः । हन्तीति । इतिर्हेतौ । वर्तमानकालिकहननाद्धेतोरित्यर्थः । अत्र लिङ्निमित्तसत्त्वाद्भविष्यति तु क्रियातिपत्तौ भूते च लृङ् ।

Padamanjari

Up

index: 3.3.156 sutra: हेतुहेतुमतोर्लिङ्


भविष्यति च काल इति । इष्यत इत्यपेक्ष्यते । कथं पुनरेतद् द्वयं सूत्रेऽनुपातमेव लभ्यते ? इत्याह - तत्रेति । लिङिति वर्तमाने इति । ठुताप्योःऽ इत्यादेः सूत्रात् । हन्तीति पलायत इति । अत्र हननं हेतुः, पलायनं हेतुमत् । वर्षणं हेतुः, सरणं हेतुमत् । पलायत इति । ठुपसर्गस्यायतौऽ इति लत्वम् । अत्र'लक्षणहेत्वोः क्रियायाः' इति शत्रादेशोऽपि न भवति,'हतियोगे च सद्विधिः' इति व्यवस्थितविभाषासु पठितत्वात् ॥