3-3-138 परस्मिन् विभाषा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् न अनद्यतनवत् भविष्यति मर्यादावचने
भविष्यति मर्यादावचने कालविभागे चानहोरात्राणामिति सर्वमनुवर्तते। कालमर्यादाविभागे सति भविष्यति काले परस्मिन् प्रविभागे विभाषानद्यतनवत् प्रत्ययविधिर्न भवति, न चेदहोरात्रसंबन्धी प्रविभागः। अवरस्मिन्वर्जं पूर्वमनुवर्तते। अवरस्मिन् पूर्वेण प्रतिषेध उक्तः, संप्रति परस्मिन्नप्राप्त एव विकल्प उच्यते। योऽयं संवत्सर आगामी, तस्य यत्परमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, अध्येतास्महे। तत्र सक्तून् पास्यामः, तत्र सक्तून् पातास्मः। अनहोरात्राणामित्येव — योऽयं त्रिंशद्रात्र आगामी, तस्य यः परः पञ्चदशरात्रः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः। भविष्यतीत्येव — योऽयं संवत्सरोऽतीतः, तस्य यत् परमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्ज्महि। मर्यादावचन इत्येव — योऽयं निरवधिकः काल आगामी, तस्य यत् परमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः। कालविभाग इत्येव — योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्, तस्य यत् परं कौशाम्ब्याः, तत्र युक्ता अध्येतास्महे, ओदनं भोक्तास्मह इति। सर्वत्रानद्यतनवत् प्रत्यया उदाहार्याः॥
अवरस्मिन्वर्जं पूर्वसूत्रद्वयमनुवर्तते । अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे । अध्येतास्महे । लिङ्निमित्ते लङ्क्रियातिपत्तौ <{SK2229}> भविष्यतीत्येव । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् ॥
<<परस्मिन् विभाषा>> - परसमिन्विभाषा । अनुवर्तते इति । तथा च भविष्यति काले मर्यादोक्तौ परस्मिन् विभागे अनद्यनवद्वेति फलितम् ।लिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इति व्याख्यातं भूधातुनिरूपणे ।