अण् कर्मणि च

3-3-12 अण् कर्मणि च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति क्रियायां क्रियार्थायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भविष्यतीत्येव। चकारः सन्नियोगार्थः। धातोरण् प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायाम्। <<कर्मण्यण्>> ३.२.१ इति सामान्येन विहितो वासरूपविधेरभावाद् ण्वुला बाधितः पुनरण् विधीयते, सोऽपवादत्वाद् ण्वुलं बाधते, परत्वात् कादीन्। तेनापवादविषयेऽपि भवत्येव। काण्डलावो व्रजति। अश्वदायो व्रजति। गोदायो व्रजति। कम्बलदायो व्रजति॥

Siddhanta Kaumudi

Up

कर्मण्युपपदे क्रियार्थायां क्रियायां चाण् स्यात् । ण्वुलोऽपवादः । काण्डलावो व्रजति । परत्वादयं कादीन् बाधते । कम्बलदायो व्रजति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

चकारः सन्नियोगार्थ इति । अन्यथा पर्यायेण स्यात् - कदाचित्क्रियार्थायामेव क्रियायामुपपदे, कदाचित्कर्मण्येव केवले; वचनं तु भविष्यति काले कादीनामपवादानां बाधनार्थं स्यात् । चकारातु सन्नियोगार्थात्समुदायस्यैव प्रत्ययोत्पति प्रति निमितत्वम् । उपपदसंज्ञा तु प्रत्येकमेव भवति; प्रत्येकं सप्तमीनिर्देशात् । तेन केवलस्यापि कर्मणः समासो भवति । काण्डलावो व्रजतीति । सोऽपवादत्वात् ण्वुलं वाधत इति । ण्वुल्विधाने च क्रियायां क्रियार्थायामुपपदे वासरूपेण तृजादयो न भवन्तीति ज्ञापितम्, न पुनरस्मिन् प्रकरणे वासरूपविधिर्नास्तीति । तेन योऽयम्'तुमुन्ण्वुलौ' इति ण्वुल्, सोऽस्याणो विषयेऽपि वासरूपविधिना भवत्येव - एधानाहारको व्रजतीति । तथा च ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति भविष्यदधिकारविहितस्याकस्य भविष्यति प्रयोगे कर्मणि षष्ठी प्रतिषिद्ध्यते । परत्वाच्च कादीनिति । ननु चापूर्वविधानात्प्रतिप्रसववचनस्य लाघवमस्तीति अण्विषय एव ण्वुलं बाधित्वाण स्यान्नापवादविषये ? एवं मन्यते - इह कर्मणीति न वक्तव्यं वचनग्रहणानुवृतेरेव यो वचनेऽण् सोऽस्मिन्विषये भवतीति वचनव्यक्तथा कर्मण्येवोपपदेऽण् सिद्धः, तत्र पुनः कर्मग्रहणं कर्ममात्रपरिग्रहार्थमित्यपवादविषयेऽपि भवतीति । एवं च परत्वादिति कोऽर्थः ? उत्कृष्टत्वादाधिक्यादित्यर्थः । अन्ये तु विप्रतिषेधमेव व्याचक्षते ॥