विभाषा धेट्श्व्योः

3-1-49 विभाषा धेट्श्व्योः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः चङ्

Sampurna sutra

Up

धेट्-श्व्योः च्लेः चङ् विभाषा

Neelesh Sanskrit Brief

Up

धेट् तथा श्वि धातुभ्याम् परस्य च्लि-प्रत्ययस्य विकल्पेन चङ्-आदेशः भवति ।

Neelesh English Brief

Up

For the verbs धेट् and श्वि , the च्लि प्रत्यय is optionally converted to चङ्.

Kashika

Up

<<धेट् पाने>>, <<टुओश्वि गतिवृद्ध्योः>> एताभ्यामुत्तरस्य च्लेर्विभाषा चङादेशो भवति। धेटस्तावत् — अदधत्। सिच्पक्षे <<विभाषा घ्राधेट्०>> (२.४.७८) इति लुक्। अधात्। अधासीत्। श्वयतेः खल्वपि — अशिश्वियत्। अङोऽप्यत्र विकल्प इष्यते। अश्वत्। अश्वयीत्। कर्तरीत्येव — अधिषातां गावौ वत्सेन॥

Siddhanta Kaumudi

Up

आभ्यां च्लेश्चङ्वा स्यात्कर्तृवाचिनि लुङि परे । चङि <{SK2315}> इति द्वित्वम् । अदधत् । अदधताम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु धेट् (पाने) तथा टुओश्वि (गतिवृद्ध्योः) एतयोः विषये च्लि-विकरणस्य विकल्पेन चङ्-आदेशः भवति । 1. धेट् धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - धे + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → धे + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति च्लि-विकरणप्रत्ययः] → धे + चङ् + ल् [<<विभाषा धेट्श्व्योः>> 3.1.48 इति वैकल्पिकः चङ्-प्रत्ययः] .... → अदधत् धेट्-धातोः विषये च्लि-इत्यस्य चङ्-आदेशः केवलं विकल्पेनैव भवति । तस्य अभावात् औत्सर्गिकरूपेण <<च्लेः सिच्>> 3.1.44 इति सिच्-प्रत्ययः अपि विधीयते । 2. टुओश्वि-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - श्वि + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → श्वि + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति च्लि-विकरणप्रत्ययः] → श्वि + चङ् + ल् [<<विभाषा धेट्श्व्योः>> 3.1.48 इति वैकल्पिकः चङ्-प्रत्ययः] .... → अशिश्वियत् श्वि-धातोः विषये च्लि-इत्यस्य चङ्-आदेशः केवलं विकल्पेनैव भवति । तदभावात् <<जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च>> 3.1.58 अनेन सूत्रेण विकल्पेन अङ् -प्रत्ययः अपि विधीयते । तस्य अभावात् च औत्सर्गिकरूपेण <<च्लेः सिच्>> 3.1.44 इति सिच्-प्रत्ययः भवति ।

Balamanorama

Up

<<विभाषा धेट्श्व्योः>> - लुङि च्लेः सिचि प्राप्ते — विभाषा धेट् ।च्लि लुङी॑त्यनुवर्तते ।णिश्रिद्रुरुआउभ्यःरर॑ इत्यतः कर्तरि चङिति च । तदाह — आभ्यामिति । धेट् इआ आभ्यामित्यर्थः । अदधदिति । चङि द्वित्वे आल्लोप इति भावः । अदधताम् । अदधन् । अदधः अदधतमदधत । अदधमदधाव अदधाम ।

Padamanjari

Up

विभाषा धेट्श्व्योः॥ अङेऽप्यत्र विकल्प इति।'जृस्तम्भु' इत्यादिना। अश्वदिति।'श्वयतेरः' । अश्वयीदिति।'ह्म्यन्त' इत्यादिना सिचि वृद्धेः प्रतिषेधाद् गुणः। अधिषातामिति। कर्मणि द्विवचनम्, आताम्।'स्थाघ्वोरिच्च' इति कित्वेत्वे॥