गुपेश्छन्दसि

3-1-50 गुपेः छन्दसि प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः चङ् विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गुपेः परस्य च्लेश्छन्दसि विषये विभाषा चङादेशो भवति। यत्र आयप्रत्ययो नास्ति, तत्रायं विधिः। इमान् मे मित्रावरुणौ गृहानजूगुपतं युवम् (आश्व०श्रौ० २.५.१२)। अगौप्तम्। अगोपिष्टम्। अगोपायिष्टमिति वा। भाषायां तु चङन्तं वर्जयित्वा शिष्टं रूपत्रयं भवति॥

Siddhanta Kaumudi

Up

च्लेश्चङ्वा । गृहानजूगुपतं युवम् (गृहा॒नजू॑गुपतं यु॒वम्) । अगौप्तमित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गुपेश्च्छन्दसि॥ यस्मादायप्रत्ययो नाम्ति तत्रायं विधिरिति। सूत्रे केवलस्योच्चारणाद्'गुप गोपने' 'गुप व्याकुलत्वे' इत्यनयोस्तु ग्रहणं न भवति; च्छन्दसि द्दष्टानुविधानात्। दर्शने तु तयोरपि ग्रहणम्। अजूगुपतमिति।'गुपू रक्षणे' 'तस्थस्थमिपाम्' इति थसस्तम्,'तुजादीनां दीर्घो' भ्यासस्यऽ। अगौप्तमिति। ऊदित्वादिडभावपक्षे'झलो झलि' इति सिचो लोपः। अगोपायिष्टमिति। आयप्रत्ययान्तात्सिच्॥