छन्दसि परेऽपि
1-4-81 छन्दसि परे अपि आ कडारात् एका सञ्ज्ञा निपाताः ते प्राक् धातोः
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
वेदेषु उपसर्गाः तथा च गतिसंज्ञकाः धातोः अव्यवहितपरम् अपि प्रयुक्ताः दृश्यन्ते ।
Kashika
Up
प्राक् प्रयोगे प्राप्ते छन्दसि परेऽप्यभ्यनुज्ञायन्ते। छन्दसि विषये गत्युपसर्गसंज्ञकाः परेऽपि पूर्वेऽपि प्रयोक्तव्याः। न च परेषां प्रयुज्यमानानां संज्ञाकार्यं किञ्चिदस्ति। केवलं परप्रयोगेऽपि क्रियायोग एषामस्तीति ज्ञाप्यते। याति नि हस्तिना, नियाति हस्तिना। हन्ति नि मुष्टिना, निहन्ति मुष्टिना॥
Siddhanta Kaumudi
Up
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<उपसर्गाः क्रियायोगे>> 1.4.59 इत्यनेन प्रादिगणस्य शब्दाः क्रियायोगे उपसर्गसंज्ञकाः भवन्ति । एवमेव, <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इत्येतैः सूत्रैः भिन्नाः शब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति । एते सर्वे उपसर्गसंज्ञकाः गतिसंज्ञकाः च <<ते प्राग्धातोः>> 1.4.80 इत्यनेन धातोः अव्यवहितपूर्वम् एव विधीयन्ते । परन्तु वेदेषु तु उपसर्गसंज्ञकाः गतिसंज्ञकाः च धातोः अनन्तरम् अपि प्रयुक्ताः दृश्यन्ते - इति अस्य सूत्रस्य आशयः । धातोः पूर्वं तु एते अवश्यं हि प्रयुक्ताः दृश्यन्ते, परन्तु धातोः अनन्तरम् अपि दृश्यन्ते - इति अत्र अर्थः वर्तते । धातोः परं प्रयुक्तानाम् एतादृशानां गतिसंज्ञकानाम् उपसर्गसंज्ञकानां वा उपस्थितौ किमपि गतिसंज्ञाविशिष्टम् (स्वरकार्यादिकम्) उत उपसर्गसंज्ञाविशिष्टं (णत्वादिकं) कार्यं न हि भवति । केवलम् एतेषां क्रियायोगः अस्ति इति कारणात् एतेषाम् गतिसंज्ञा उपसर्गसंज्ञा वा दीयते ।
काशिकाकारेण अस्य सूत्रस्य द्वे उदाहरणे दत्ते स्तः -
1. नियाति हस्तिना, निहन्ति मुष्टिना । अत्र नि इति उपसर्गः याति तथा हन्ति इति धात्वोः प्राक् प्रयुक्तः दृश्यते ।
2. याति नि हस्तिना, हन्ति नि मुष्टिना । अत्र नि इति उपसर्गः याति तथा हन्ति इति धात्वोः अनन्तरम् प्रयुक्तः दृश्यते ।
##Balamanorama
##Padamanjari
न च परेषामिति। नच'गतिर्गतौ' इत्यस्यापि सम्भवः, परभूतानामेकाकिनामेव दर्शनादिति मन्यते॥