अनत्याधान उरसिमनसी
1-4-75 अनत्याधाने उरसिमनसी आ कडारात् एका सञ्ज्ञा निपाताः गतिः विभाषा कृञि
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
उपश्लेषभिन्ने अर्थे "उरसि" तथा च "मनसि" एतौ शब्दौ कृ-धातोः योगे विकल्पेन गतिसंज्ञकौ भवतः । यथा - उरसिकृत्य, उरसिकृत्वा । मनसिकृत्य, मनसिकृत्वा ।
Kashika
Up
विभाषा कृञीति वर्तते। अत्याधानमुपश्लेषणम्, तदभावेऽनत्याधान उरसिमनसी शब्दौ विभाषा कृञि गतिसंज्ञौ भवतः। उरसिकृत्य, उरसि कृत्वा। मनसिकृत्य, मनसि कृत्वा। अनत्याधान इति किम्? उरसि कृत्वा पाणिं शेते॥
Siddhanta Kaumudi
Up
उरसिकृत्य । उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं षोडशं सूत्रम् । उरसि तथा च मनसि इति विभक्ति-प्रतिरूपकौ निपातौ यदा उपश्लेषः (= संयोगः / immediate contact) इति अर्थं विहाय अन्येषु अर्थेषु प्रयुज्येते, तदा एतयोः <<कृ>>-धातोः योगे विकल्पेन गतिसंज्ञा भवति । गतिसंज्ञापक्षे <<कुगतिप्रादयः>> 2.2.18 इत्यनेन एतयोः शब्दयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - उरसिकृत्य गच्छति (= स्वीकृत्य गच्छति इत्याशयः) । एवमेव मनसिकृत्य गच्छति (= निश्चयं कृत्वा गच्छति इत्यर्थः) । गतिसंज्ञा-अभावपक्षे गतिसमासः ल्यबादेशः च न भवत:, अतः उरसि कृत्वा / मनसि कृत्वा गच्छति इति प्रयोगौ सिद्ध्यतः । यदा एतौ शब्दौ संयोगः अस्मिन् अर्थे प्रयुज्यते तदा तु प्रकृतसूत्रस्य प्रयोगः न भवति। यथा पाणिम् उरसि कृत्वा शेते (हस्तं उरःप्रदेशे संस्थाप्य निद्राति इत्यर्थः) अत्र हस्तस्य उरःप्रदेशेन सह उपश्लेषः / संयोगः अस्ति अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतश्च गतिसंज्ञा अपि नैव विधीयते । मनस् इति तु दृश्यमानः अवयवः न, अतः तस्य सन्दर्भेण उपश्लेषः (immediate contact) नैव सम्भवति इति कारणात् मनस्-शब्दस्य अत्र प्रत्युदाहरणानि न विद्यन्ते ।
अनत्याधानम् इति शब्दः
अनत्याधानम् इति शब्दः
न अत्याधानम् इति अनत्याधानम् इति नञ्-समासेन सिद्ध्यति । कोशेषु
अत्याधानम् इत्यस्य अर्थः "उपरि स्थापनम्" इति दीयते । एतं अर्थं विहाय कस्मिंश्चित् अन्यस्मिन् अर्थे
उरसि उत
मनसि इति शब्दौ यत्र प्रयुज्येते तत्र प्रकृतसूत्रस्य प्रयोगः भवति - इति ज्ञापयितुम् अत्र
अनत्याधाने इति शब्दः स्थापितः अस्ति ।
उरसि, मनसि इति शब्दौ
उरसि तथा च
मनसि एतौ शब्दौ विभक्तिप्रतिरूपकौ निपातौ स्तः ।
उरस्-शब्दस्य सप्तम्येकवचनस्य यः अर्थः, तस्मिन्नेव अर्थे
उरसि इति निपातसंज्ञकः शब्दः अत्र निर्दिष्टः अस्ति । एवमेव,
मनस्-शब्दस्य सप्तम्येकवचनस्य यः अर्थः, तस्मिन्नेव अर्थे
मनसि इति निपातसंज्ञकः शब्दः अत्र प्रयुक्तः वर्तते । एतयोः द्वयोः निपातयोः प्रकृतसूत्रेण विकल्पेन गतिसंज्ञा विधीयते ।
Balamanorama
Up
<<अनत्याधान उरसिमनसी>> - अनत्याधाने । 'उपसि' 'मनसि' इति विभक्तिप्रतिरूपके अव्यये गतिसंज्ञे वा स्तोऽनत्याधाने । उरसिकृत्येति । गतित्वपक्षे कत्वो ल्यप् । इह अत्याधानं न गम्यत इत्याह -अभ्युपगम्येत्यर्थ इति । मनसिकृत्येति । गतित्वपक्षे क्त्वो ल्यप् । इहापि नाऽत्याधानं गम्यत इत्याह — निश्चित्येत्यर्थ इति । अत्याधानशब्दं विवृण्वंस्तस्य प्रयोजनमाह — उपश्लेषणमिति । संयोग इत्यर्थः । उरसि कृत्वेति । उरसि पाणिं निधाय शेत इत्यर्थः । अत्र पाणिसंश्लेषणावगमान्न गतिसंज्ञेति भावः । मध्येपदे । गतित्वे तदभावे च त्रयाणामेदन्तत्वं निपात्यते ।
Padamanjari
Up
उरसिमनसिशब्दौ निपातौ। उरसिकृत्येति। अभ्युपगम्येत्यर्थः। मनसिकृत्य, निश्चित्येत्यर्थः॥