जनिकर्तुः प्रकृतिः
1-4-30 जनिकर्तुः प्रकृतिः आ कडारात् एका सञ्ज्ञा कारके अपादानम्
Sampurna sutra
Up
जनिकर्तुः प्रकृतिः कारकम् अपादानम्
Neelesh Sanskrit Brief
Up
जननक्रियायाः यः हेतुः (कारणम्) तत् कारकम् अपादानसंज्ञं भवति । यथा - शृङ्गात् शरः जायते ।
Kashika
Up
जनेः कर्ता जनिकर्ता। जन्यर्थस्य जन्मनः कर्ता जायमानः, तस्य या प्रकृतिः कारणं हेतुः, तत् कारकमपादानसंज्ञं भवति। शृङ्गाच् छरो जायते। गोमयाद् वृश्चिको जायते॥
Siddhanta Kaumudi
Up
जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं सप्तमं सूत्रम् । जननक्रियायाम् (इत्युक्ते निर्माणस्य क्रियायाम्) य पदार्थः हेतुरूपेण (कारणरूपेण) प्रयुज्यते तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा - शृङ्गात् शरः जायते । अत्र शरस्य निर्माणे शृङ्गपदार्थः कारणम्, अतः तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति ।
जनिकर्तुः इति शब्दस्य अर्थः
अस्मिन् सूत्रे प्रयुक्तम्
जनिकर्तुः इति पदम् समस्तपदम् अस्ति ।
जनिः इत्युक्ते
जननम् (जन्मप्राप्तिः) । <<जन्>>-धातोः धात्वर्थनिर्देशार्थम् <<इण्>> इति प्रत्ययं सयोज्य
जनि इति शब्दः सिद्ध्यति । अस्याः जननक्रियायाः यः कर्ता (इत्यक्ते यः जायते) सः
जनिकर्ता (प्रातिपदिकं जनिकर्तृ इति) इत्यनेन पदेन निर्दिश्यते । अस्य जनिकर्तुः निर्माणे यत् कारणम् , तस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा, शरस्य निर्माणम् शृङ्गात् भवति, अतः
शृङ्गात् शरः जायते इति प्रयोगः सिद्ध्यति ।
प्रकृति: इति शब्दस्य अर्थः
अस्मिन् सूत्रे विद्यमानः
प्रकृतिः इति शब्दः
कारणम् / हेतुः अस्मिन् अर्थे प्रयुक्तः अस्ति । जननक्रियायाः कारणम् - इत्युक्ते यस्य पदार्थस्य साहाय्येन निर्माणं भवति - सः अत्र प्रकृतिशब्देन निर्दिश्यते । अस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । इयं प्रकृतिः द्विधा भवति -
1. उपादानकारणम् - तत् कारणम् यस्मिन् परिवर्तनं कृत्वा नूतनपदार्थस्य निर्माणं भवति । यथा, मृद् इति घटस्य उपादानकारणम् । एवमेव शृङ्गः इति शरस्य उपादानकारणम् । अस्य उपादानकारणस्य प्रकृतसूत्रेण अपादानसंज्ञा सम्भवति, अतएव मृदः घट: जायते, शृङ्गात् शरः जायते इत्यादीनि वाक्यानि सिद्ध्यन्ति ।
2. सहकारिकारणम्- तत् कारणम् यत् निर्माणक्रियायां सहकार्यं करोति । यथा, घटनिर्माणकार्ये जलम्, अग्निः, कुम्भकारः - एते सर्वे सहकारिणः । एतादृशस्य सहकारिकारणस्य अपि प्रकृतसूत्रेण ग्रहणं भवति । अतएव पुत्रात् प्रमोदः जायते इति वाक्यम् सिद्ध्यति । अत्र प्रमोदः साक्षात् पुत्रस्य अंशेन (पुत्रे परिवर्तनं कृत्वा) निर्मितः नास्ति, अपितु पुत्रं दृष्ट्वा मनसि उद्भवति । अतः अत्र पुत्रः इति प्रमोदस्य सहकारिकारणम् वर्तते । अस्यापि प्रकृतसूत्रेण अपादानसंज्ञा भवति । एवमेव कामात् क्रोधः जायते इत्यत्रापि कामः इति क्रोधस्य सहकारिकारणम्, अतः तस्य अपि प्रकृतसूत्रेण अपादानसंज्ञा भवति ।
सहकारिकारणस्य नित्यम् अपादानसंज्ञा एव भवेत् इति न आवश्यकम् । कारकप्रकरणम् एकसंज्ञाधिकारे विद्यते, अतः अग्रे विद्यमानाः सम्प्रदानादिसंज्ञाः परत्वात् एकसंज्ञाधिकारत्वात् च अपादानसंज्ञां अवश्यं बाधितुम् अर्हन्ति । अतएव घटनिर्माणे अग्नेः अपादानसंज्ञां बाधित्वा करणसंज्ञा भवति, एवमेव देवदत्तस्य अपादानसंज्ञां बाधित्वा कर्तृसंज्ञा विधीयते ।
सिद्धान्तकौमुद्यां भट्टोजिदीक्षितः अस्य सूत्रस्य ब्रह्मणः प्रजा: प्रजायन्ते इति उदाहरणं पाठयति । अस्य उदाहरणस्य द्वेधा अर्थसङ्गतिः सम्भवति -
1. ब्रह्मन् इति शब्दः परब्रह्म अस्मिन् अर्थे स्वीक्रियते चेत् "इयं सर्वा प्रजा ब्रह्मणः एव अंशः" इत्यस्मिन् अर्थे ब्रह्मन् इत्यस्य उपादानत्वेन प्रकृतसूत्रेण अस्य अपादानसंज्ञा भवितुम् अर्हति ।
अथवा,
2. ब्रह्मन् इति शब्दः ब्रह्मदेवः अस्मिन् अर्थे स्वीक्रियते चेत् प्रजानिर्माणे ब्रह्मणः सहकारिकारणत्वं सिद्ध्यति, यतः ब्रह्मदेवात् साक्षात् सम्पूर्णा सृष्टिः न निर्मिता, अपितु ब्रहदेवात् मनोः शतरूपायाः च निर्माणम्, ततः च ताभ्याम् अन्येषाम् निर्माणम् जातम् । अत्रापि अस्य सहकारिकारणस्य प्रकृतसूत्रेण अपादानसंज्ञा सिद्ध्यति ।
अस्य सूत्रस्य विषये भाष्ये केवलम् उपादानकारणस्य एव उदाहरणानि लभ्यन्ते । अतएव अस्य सूत्रस्य प्रयोगः केवलम् उपादानकारणस्य विषये एव भवति, सहकारिकारणस्य विषये न - इति पक्षः कैयटेन, नागेशेन च स्वीकृतः वर्तते । अस्मिन् विषये अधिकं पिपठिषवः प्रदीपोद्द्योतं, लघुशब्देन्दुशेखरं च पश्येयुः । काशिकायां तु द्वौ अपि पक्षौ उक्तौ स्तः । कौमुद्याम् अपि उभयोः तादृशमेव उदाहरणं दत्तं वर्तते येन उभयोः अपि पक्षयोः साधुत्वं वक्तुं शक्यम् ।
गोमयात् वृश्चिकः जायते इति उदाहरणम्
प्रकृतसूत्रे काशिकायाम्, भाष्ये च गोमयात् वृश्चिकः जायते (A scoprion is created from cow-dung) इति उदाहरणं दत्तम् अस्ति । यद्यपि गोमयात् वृश्चिकस्य निर्माण नैव शक्यम्, तथापि लोके सामान्यतः गोमयात् एव वृश्चिकं बहिः आगतं दृष्ट्वा जनाः (कथञ्चित्) गोमयम् वृश्चिकस्य उपादानकारणरूपेण एव स्वीकुर्वन्ति । एवमेव भाष्ये अविलोमभ्यः दूर्वाः जायन्ते इति अपरम् उदाहरणम् अपि दत्तम् अस्ति । अविः इत्युक्ते मेषः । "मेषस्य लोमानि (केशाः) भूमौ निखन्यन्ते (burried) चेत् तेभ्यः दूर्वाः उद्भवन्ति" इति सामान्यतः लोके स्वीक्रियते, अतः अत्रापि अवि-लोमानि इति दूर्वाणाम् उपादानकारणरूपेण एव भाष्ये निर्दिष्टानि सन्ति ।
भाष्ये सूत्रस्य प्रत्याख्यानम्
भाष्यकारेण "इदं सूत्रम् अनावश्यकम् अस्ति" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् -
अयमपि योगः शक्योऽवक्तुम् । कथं गोमयाद्वृश्चिको जायते। गोलोमाऽविलोमभ्यो दूर्वा जायन्ते इति ? अपक्रामन्ति तास्तेभ्यः । - महाभाष्यम्
गोमयात् वृश्चिकः जायते इत्यादिषु उदाहरणेषु वृश्चिकाः गोमयात् बहिः आगत्य पृथक् भवन्ति, अतश्च अत्र अपायः अवश्यम् गर्भितः अस्ति । किञ्च, मृदः घटः जायते इत्यादिषु उदाहरणेषु अपि मृत्-पदार्थात् घट-पदार्थस्य बुद्ध्या पृथक्करणं कृत्वा ततः एव घट इति भिन्नं नाम दीयते, अतश्च तत्रापि अपायः अवश्यमेव दृश्यते । अतश्च इदम् उपात्तविषयम् अपादानम् इत्येव मत्त्वा ध्रुवमपायेऽपादानम्>> 1.4.24 इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , तदर्थम् पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।
##Balamanorama
<<जनिकर्त्तुः प्रकृतिः>> - जनिकर्तुः प्रकृतिः । जनिर्जननमुत्पत्तिः ।जनी प्रादुर्भावे॑दैवादिकोऽकर्मकः । 'इण्जादिभ्यः' इति भावे इण् ।जनिवध्योश्चे॑ति निषेधान्नोपधावृद्धिः । जनेः कर्तेति विग्रहः । शेषषष्ठआ समासः ।तृजकाभ्यां कर्तरी॑ति निषेधस्तु कारकषष्ठआ एवेति वक्ष्यते । जायमानस्येति । जनधातोः कर्तरि लटश्शानच्, श्यन्, 'ज्ञाजनोर्जा'आने मुक् । उत्पत्त्याश्रयस्येत्यर्थः । प्रकृतिशब्दं व्याचष्टे-हेतुरिति । ब्राहृण इति । हिरण्यगर्भादित्यर्थः । घटादिषु कुलालादिवत्तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः । वृत्तिकृन्मतमेतदयुक्तम्, संयोगविश्लेषसत्त्वेन 'ध्रुवमपाये' इत्येव सिद्धत्वात् । अतोऽत्र मूले हेतुशब्द उपादानकारणपर एव । अत एव भाष्यकैयटयोःगोमायाद्वृश्चिका जायन्ते॑ गोलोमाऽविलोमभ्यो दूर्वा जायन्ते॑ इत्युदाहृत्य परिणामेषु प्रकृतिद्रव्यवायवानुस्यूतिसत्त्वेऽपि बुद्धिकृतविश्लेषसत्त्वात् 'ध्रुवमपाये' इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते । एवं चब्राहृणः प्रजाः प्रजायन्ते॑ इत्यत्र ब्राहृशब्देन मायोपहितमीआरचैतन्यमेव विवक्षितम् । तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः ।
##Padamanjari
जनेः कर्ता जनिकर्तेति कर्मणि षष्ठयाः समासः। अयमेव च निर्देशो ज्ञापयति-कर्तरि च इति प्रतिषेधोऽनित्य इति। कः पुनरसावित्यत आह-जन्यर्थस्येति। एतदुक्तं भवति-जनिशब्दोऽयमिणजादिभ्यः इति जनेर्भाव इञमुत्पाद्य व्युत्पादितः। जनिवध्योश्च इति वृद्धिप्रतिषेधो जन्यार्थवाची, न तु इश्तिपौ धातुनिर्देशे इति इक्प्रत्ययान्तः, गमहन इत्युपधाया लोपप्रसङ्गात् । नाप्यागन्तुकेनेकारेण धातोर्निर्देशः; शब्दात्मकस्य धातोः कर्त्रा सम्बन्धायोगात्। अथाप्यर्थद्वारको योगः स्याद्? एवमपि धातुनिर्देशे तस्यैव प्रयोगे स्याद्, न पर्यायस्य; अङ्गादङ्गास्तम्भवोऽस्तीति। अर्थग्रहणे त्वत्रापि भवतीति। प्रकृतिरित्यस्य विवरणम् - कारणमिति। उपादानकारणमित्यर्थः। अन्ये तु ध्रुवग्रहणानुवृतेरेव प्रकृतिपरिग्रहे सिद्धे प्रकृतिग्रहणं कारणमात्रपरिग्रहार्थं वर्णयन्ति। अत एव वृतावुक्तम्-कारणमिति, न पुनरुपादानकारणमिति। तेन च पुत्रात्प्रमोदो जायत इत्यादावपि भवतीति। किं पुनः सत् जायते उतासत्? न तावत्सत्; जन्मवैयर्थ्यात्। यदि जन्मनः प्रागेव सत्, किं जन्मना? अथैवमपि जन्म, जायस्व जायस्वेत्येव घटो जायते। नाप्यसत्; असतः कर्तृत्वायोगात्, शशविषणादेरपि जन्मप्रसङ्गच्च। उक्तमत्र - पूर्वावस्थामविजहत्संस्पृशन् धर्ममुतरम्। संमूर्च्छित इवार्थात्मा जायमानोऽभिछीयते॥ इति। एतच्च आन्महतः इत्यत्रोपपादयिष्यामः। किञ्चास्माकमनेन दुस्तर्केण, अस्ति तावत् 'शृङ्गाच्छरो जायते' इति प्रयोगः, स उपपादनीय इत्येतावत्! अयमपि प्रपञ्चः। लोके हि यद्यस्माज्जायते तततो निर्गच्छतीत्युच्यते, लोकप्रसिद्ध्यनुसारेण शब्दप्रयोगः, अर्थतत्वं तु तथा भवत्वन्यथा वा॥