आख्यातोपयोगे

1-4-29 आख्याता उपयोगे आ कडारात् एका सञ्ज्ञा कारके अपादानम्

Sampurna sutra

Up

आख्याता उपयोगे अपादानं कारकम्

Neelesh Sanskrit Brief

Up

नियमरूपेण विद्यायाः यस्मात् ग्रहणं भवति तत् कारकम् अपादानसंज्ञं भवति । यथा - उपाध्यायाद् अधीते ।

Kashika

Up

आख्याता प्रतिपादयिता। उपयोगो नियमपूर्वकं विद्याग्रहणम्। उपयोगे साध्ये य आख्याता, तत् कारकमपादानसंज्ञं भवति। उपाध्यायादधीते। उपाध्यायादागमयति। उपयोग इति किम्? नटस्य गाथां शृणोति॥

Siddhanta Kaumudi

Up

नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् ? नटस्य गाथां शृणोति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं षष्ठं सूत्रम् । यत्र विधिपुरस्सरम् अध्ययनं (ज्ञानग्रहणं) भवति तत्र अध्यापकस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा, देवदत्तः उपाध्यायात् अधीते । अत्र "देवदत्तः नियमपूर्वकं विद्याग्रहणं करोति" इति आशयः वर्तते, अतः अत्र "यस्मात् ज्ञानग्रहणं क्रियते" तस्य (= उपाध्यायस्य) अपादानसंज्ञा भवति । एवमेव उपाध्यायाद् आगमयति अत्रापि अनेनैव सूत्रेण अपादानसंज्ञा क्रियते । <hlb>उपयोग:</hlb> इति शब्दस्य अर्थः प्रकृतसूत्रे प्रयुक्तस्य उपयोगः इति शब्दस्य अत्र अर्थः वर्तते नियमपूर्वकम् विद्याग्रहणम् । वेदादिकानां अध्ययनस्य परम्परयाः निर्णिताः केचन नियमाः वर्तन्ते । यथा - छात्रः भिक्षार्थम् अटेत्, छात्रः भूमौ शयीत, छात्रः प्रतिदिनं पाठस्य कण्ठस्थीकरणं कुर्यात् - इत्यादयः । एतान् नियमान् अनुसृत्य यथोचितं मार्गेण यदा छात्रः आचार्यस्य सकाशे विद्याध्ययनं करोति, तदा तद् अध्ययनम् उपयोगः इति नाम्ना ज्ञायते । अयमेव अर्थः अस्मिन् सूत्रे स्वीकृतः अस्ति । एतादृशस्य उपयोगस्य सन्दर्भेण यस्मात् ज्ञानं स्वीक्रियते (यः आख्याता = अध्यापकः) तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । <hlb>आख्याता</hlb> शब्दस्य अर्थः प्रकृतसूत्रे प्रयुक्तः आख्याता (प्रातिपदिकम् - आख्यातृ) इति शब्दः अध्यापकः / वक्ता अस्मिन् अर्थे प्रयुक्तः अस्ति । यः वक्ता स्वमुखात् ज्ञानं ददाति, तस्य प्रकृतसूत्रेण अपादानसंज्ञा इष्यते, एतत् स्पष्टीकर्तुम् अत्र आख्याता इति शब्दः प्रयुज्यते । दलकृत्यम् 1. उपयोगे इति किमर्थम् ? - यदि नियमरूपेण विद्यायाः ग्रहणं न भवति, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न क्रियते । यथा - नटस्य गाथां शृणोति इत्यत्र नटेन उक्तानि वाक्यानि श्रोता अवश्यमेव शृणोति, परन्तु तत्र श्रोता तेषां सनियमम् अध्ययनम् नैव करोति, न वा तस्मिन् सन्दर्भे भिक्षाटनादिकं कार्यम् अपि करोति । अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति । <pv> भाष्ये सूत्रस्य प्रत्याख्यानम् भाष्यकारेण "इदं सूत्रम् अनावश्यकम् अस्ति" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् - अयमपि योगः शक्योऽवक्तुम् । कथम्-उपाध्यायादधीत इति ?. अपक्रामति तस्मात्तदध्ययनम् । यद्यपक्रामति, किं नात्यन्तायाऽपक्रामति ? सन्ततत्वात् । - महाभाष्यम् उपाध्यायात् अधीते इत्यादिषु प्रयोगेषु उपाध्यायस्य मुखात् शब्दानाम् अपायः (पृथक्करणं) भवति, ततश्च ते एव शब्दाः श्रोतुः कर्णाभ्याम् तस्य बुद्धौ ज्ञानं संस्थापयन्ति । अनेन प्रकारेण अत्र अध्ययनक्रियायाम् शब्दानाम् पृथक्करणम् गर्भितम् एव अस्ति, इत्युक्ते अत्र अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा ध्रुवमपायेऽपादानम्>> 1.4.24 इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , तदर्थम् पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।

Balamanorama

Up

<<आख्यातोपयोगे>> - आख्यातोपयोगे । आख्याता-उपयोगे इति च्छेदः । आख्यातेति तृजन्तात्प्रथमैकवचनम् । उपयोगपदं व्याचष्टे-नियमपूर्वकेति । भाष्ये तथोक्तेरिति भावः । आख्यातेति तृजन्तं व्याचष्टे-वक्तेति । अध्यपयितेत्यर्थः । उपाध्यायादधीते इति । नियमविशेषपूर्वकमुपाध्यायस्योच्चारणमनूच्चरयतीत्यर्थः । षष्ठपवादोऽयम् । भाष्ये तूपाध्यांयान्नर्गतं वेदं गृह्णातीत्यर्थमाश्रित्य प्रत्याख्यातमिदम् ।

Padamanjari

Up

नियमपूर्वकं विद्याग्रहणमिति। तत्रैवोपयोगशब्दस्य रूढत्वात्। यथा तेषां मन्त्राणामुपयोगे द्वादशाहमधः शय्योति नियमो भिक्षाचरणादिः। नटस्य शृणोतीति। किं पुनर्नटः कारकम्? उताहो न ?, यदि कारकम्? कर्म संज्ञा प्राप्नोति-ठकथितं चऽ इति। अथाकारम्? उपयोगग्रहणमनर्थकं स्यात्। अस्तु कारकम्, न ह्युपाध्यायान्नटस्य व्यापारे कश्चिदन्यो विशेषः; अन्यदतो नियमात्। दुह्यादिपरिगणनातु कर्मसंज्ञा न भवति। क्वचितु नटस्य गाथां शृणोति, ग्रन्थिकस्य कथां शृणोतीति पाठः, तत्रापि नटादिनिमितं गाथादेः श्रवणं करोतीत्यर्थ; न तु गाथादिविशेषणं नटादिः; अकारकत्वप्रसङ्गात्। ग्रन्थिकःउकथाया वाचयिता। अयमपि प्रपञ्चः, कथम्? उपाध्यायान्निस्सरन्तं शब्दं गृह्णातीति स्फुट एवात्रापायः। इदं तर्हि प्रयोजनम्-ठुपयोग इति वक्ष्यामि, नटस्य मा भूत्ऽ इति? ननु नटस्य सत्यप्यवधित्वे शेषरूपेण विवक्षणात् षष्ठी भविष्यति, यथा न माषाणामश्नीयादिति वस्तुतः कर्मत्वं माषाणाम्, सत्यम्; स एव विवक्षानियमः सूत्रकारेण प्रदर्श्यते-उपयोगेऽवधित्वं विवक्षितम्, अन्यत्र शेषत्वमिति॥