स्वमज्ञातिधनाख्यायाम्

1-1-35 स्वम् अज्ञातिधनाख्यायाम् सर्वनामानि विभाषा जसि

Sampurna sutra

Up

स्वमज्ञातिधनाख्यायामसंज्ञायाम् जसि विभाषा सर्वनाम

Neelesh Sanskrit Brief

Up

'बान्धवः' तथा 'धनम्' एतौ अर्थौ विहाय अन्येषु अर्थेषु प्रयुक्तः 'स्व' शब्दः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकः भवति ।

Neelesh English Brief

Up

The word 'स्व', when used in a meaning different than 'relatives' and 'money' is optionally called सर्वनाम when followed by the जस् प्रत्यय.

Kashika

Up

अत्रापि नित्या सर्वनामसंज्ञा प्राप्ता जसि विभाष्यते। स्वमित्येतच् छब्दरूपं जसि विभाषा सर्वनामसंज्ञं भवति, न चेज् ज्ञातिधनयोः संज्ञारूपेण वर्तते। स्वे पुत्राः, स्वाः पुत्राः। स्वे गावः, स्वा गावः। आत्मीया इत्यर्थः। ज्ञातिप्रतिषेधः किम्?

धूमायन्त इवाश्लिष्टाः प्रज्वलन्तीव संहताः।

उल्मुकानीव मेऽमी स्वा ज्ञातयो भरतर्षभ॥ (महाभारत ५.३६.५८)

अधनाख्यायामिति किम्? प्रभूताः स्वा न दीयन्ते। प्रभूताः स्वा न भुज्यन्ते। प्रभूतानि धनानीत्यर्थः॥

Siddhanta Kaumudi

Up

ज्ञातिधनान्यवाचिनः स्वशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे । स्वाः । आत्मीया इत्यर्थः । आत्मन इति वा । ज्ञातिधनवाचिनस्तु स्वाः । ज्ञातयोऽर्था वा ॥

Laghu Siddhanta Kaumudi

Up

ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः; आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः; ज्ञातयोऽर्था वा॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> 1.1.27 इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं नवमं सूत्रम् । इदं विभाषासूत्रम् अस्ति । 'स्व' इत्यस्य शब्दस्य नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते । सर्वादिगणस्य '<<स्वमज्ञातिधनाख्यायाम्>>' इति गणसूत्रम् <<सर्वादीनि सर्वनामानि>> 1.1.27 अस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे <<स्वमज्ञातिधनाख्यायाम् >> इति गणसूत्रम् पाठितम् अस्ति । अनेन गणसूत्रेण 'स्व' इति शब्दस्य 'स्व'शब्दस्य 'ज्ञातिः' (बान्धवः / स्वजनः / relatives), तथा 'धनम्' एतौ अर्थौ विहाय अन्येषु अर्थेषु सर्वनामसंज्ञा भवति । 'ज्ञातिः' तथा 'धनम्' एतौ विहाय 'स्व'शब्दस्य इतोऽपि द्वौ अर्थौ स्तः । एतयोः अर्थयोः अस्य शब्दस्य सर्वनामसंज्ञा भवति - इति अस्य गणसूत्रस्य आशयः । तद्यथा - (अ) आत्मा (स्वयम् / oneself) इत्यर्थः । अस्मिन् अर्थे 'स्व'शब्दस्य सर्वनामसंज्ञा भवति । यथा, 'स्वस्मै स्वल्पम् समाजाय सर्वम्', 'कल्पिताः स्वेषु वेश्मसु' (कुमारसम्भवम्, द्वितीयः सर्गः) सेयं स्वदेहार्पण निष्क्रयेण (रघुवंशम्) - इत्यत्र सर्वत्र विद्यमानः 'स्व'शब्दः 'स्वयम्' अस्मिन् अर्थे प्रयुक्तः अस्ति । (आ) आत्मीयः (स्वस्य / belonging to oneself) । अस्मिन् अर्थे अपि 'स्व'शब्दस्य सर्वनामसंज्ञा भवति । यथा, 'मया अद्य प्रवेष्टव्या स्वा तनुः' इति प्रयोगः कथासरित्सागरे विद्यते । अत्र 'स्व' इत्युक्ते 'स्वस्य / मम' इति । 'स्व' शब्दस्य इयं सर्वनामसंज्ञा प्रकृतसूत्रेण न भवति अपितु सर्वादिगणे विद्यमानेन <<स्वमज्ञातिधनाख्यायाम् >> इत्यनेन गणसूत्रेण भवति इति स्मर्तव्यम् । जस्-प्रत्यये परे सर्वनामसंज्ञायाः विकल्पः सर्वादिगणे विद्यमानेन <<स्वमज्ञातिधनाख्यायाम् >> इत्यनेन गणसूत्रेण आत्मा / आत्मीयः अस्मिन् अर्थे प्रयुक्तस्य 'स्व' शब्दस्य नित्यं सर्वनामसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण जस्-प्रत्यये परे अस्याः पाक्षिकः बाधः क्रियते । अतः जस्-प्रत्यये परे अस्य 'स्व' शब्दस्य पुंल्लिङ्गस्य 'स्वे / स्वाः' इति द्वे रूपे भवतः । अन्यत्र सर्वत्र तु अस्य रूपाणि 'सर्व'शब्दसदृशानि एव ज्ञेयानि । प्राप्तविभाषा प्रकृतसूत्रे निर्दिष्टा विभाषा प्राप्तविभाषा अस्ति । पूर्वसूत्रेण नित्यं प्राप्ता सर्वनामसंज्ञा अत्र पक्षे निषिध्यते, अतः इयं प्राप्तविभाषा । व्यवस्थितविभाषा प्रकृतसूत्रेण जस्-प्रत्यये परे निर्दिष्टः सर्वनामसंज्ञानिषेधः जस्-प्रत्ययविशिष्टकार्यार्थः एव ज्ञेयः, अन्यकार्यार्थः न । अतः <<अव्ययसर्वनाम्नामकच्प्राक्टेः>> 5.3.71 इत्यनेन विहितः अकच्-प्रत्ययः 'स्व' शब्दात् अन्तरङ्गत्वात् जस्-प्रत्ययविधानात् पूर्वमेव भवति । अतः अकच्-प्रत्यये कृते ततः जस्-प्रत्ययं कृत्वा 'स्वके / स्वकाः' एतादृशे अकच्-प्रत्ययनिर्मिते अन्तोदात्तरूपे एव भवतः ।

Balamanorama

Up

<<स्वमज्ञातिधनाख्यायाम्>> - स्वमज्ञाति । अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । ज्ञातिश्च धनं च ज्ञातिधने, तयोराख्या-ज्ञातिधनाख्या, न ज्ञातिधनाख्या अज्ञातिधनाख्या, तस्याम् — अज्ञातिधनाख्यायाम् ।स्व॑मिति शब्दस्वरूपापेक्षया नपुंसकत्वम् । तदाह — ज्ञातिधनान्येति । स्वेस्वा इति । सर्वनामत्वे शीभावः, तदभावे तदभाव इति भावः । आत्मा आत्मीयं ज्ञातिः धनं चेति स्वशब्दस्य चत्वारोऽर्थाः ।स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने॑ इत्यमरः । अत्रस्वो ज्ञातावात्मनी॑त्येकं वाक्यम् । ज्ञातावात्मनि च स्वशब्दः पुंलिङ्ग इत्यर्थः ।स्वं त्रिष्वात्मीये॑इति द्वितीयं वाक्यम् । आत्मीये स्वशब्दो विशेष्यनिघ्न इत्यर्थः ।स्वोऽस्त्रियां धने॑ इति तृतीयं वाक्यम् । धने स्वशब्दः पुंनपुंसक इत्यर्थः ।स्वः स्यात्पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीये ।ञस्त्रियां धने॑ इति मेदनीकोशः । तत्र ज्ञातिधनयोः पर्युदासादात्मनि आत्मीये च सर्वनामता जसि विकल्प्यत इत्यबिप्रेत्य व्याचष्टे — आत्मीया इत्यर्थः । आत्मान इति वेति । ज्ञातिधनपर्युदासस्य प्रयोजनमाह — ज्ञातिधनवाचिनस्त्विति । ज्ञातिवाचिनो धनवाचिनश्च सर्वनामत्वपर्युदासाज्जसि 'स्वाः' इत्येव रूपमित्यर्थः । नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्वं न स्यादिति वाच्यम्, आख्याग्रहणबलेन ज्ञातित्वधनेत्वपुरस्कार एव पर्युदासप्रवृत्तेः ।

Padamanjari

Up

अज्ञातिधनाख्यायामित्यस्यार्थमाह-न चेदित्यादि । यत्र शब्दान्तरनिरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे तत्रासौ संज्ञारूपेण प्रवर्तते । आत्माया इत्यर्थ इति । पुत्राणां गवां सत्यपि ज्ञातिधनत्वे न तेनाकारेण तत्र वर्तते, किन्त्वात्मीयाकारेणेत्यर्थः । आख्याग्रहणे त्वसति ज्ञातिधनयोः पर्यवसानादत्रापि प्राप्नोति । धूमायन्त इत्यादि । यथोल्मुकान्यश्लिष्टानि असंहतानि धूमायन्ते, संहतानि प्रज्वलन्ति; तद्वत् ज्ञातयोऽपीत्यर्थः । स्वा ज्ञातय इति । स्वशब्दस्यानेकार्थस्य व्यक्तीकरणाय पर्यायस्यापि ज्ञातिशब्दस्य प्रयोगः, स एव तु न प्रयुक्तः; निरङ्कुशाः कविवाचेति ॥