1-1-34 पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असज्ञायाम् सर्वनामानि विभाषा जसि
'पूर्व', 'पर', 'अवर', 'दक्षिण', 'उत्तर', 'अपर', 'अधर' - एते शब्दाः संज्ञाभिन्नरूपेण मर्यादाम् दर्शयितुम् प्रयुज्यन्ते चेत् 'जस्' प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति ।
The words 'पूर्व', 'पर', 'अवर', 'दक्षिण', 'उत्तर', 'अपर' and 'अधर'; when used in the sense of 'limit' but not as a proper noun; are optionally called सर्वनाम when followed by the जस् प्रत्यय.
पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्येतेषां गणे पाठात् पूर्वेण नित्यायां सर्वनामसंज्ञायां प्राप्तायां जसि विभाषारभ्यते। पूर्वादीनि विभाषा जसि सर्वनामसंज्ञानि भवन्ति व्यवस्थायामसंज्ञायाम्। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। पूर्वे, पूर्वाः। परे, पराः। अवरे, अवराः। दक्षिणे, दक्षिणाः। उत्तरे, उत्तराः। अपरे, अपराः। अधरे, अधराः। व्यवस्थायामिति किम्? दक्षिणा इमे गाथकाः। प्रवीणा इत्यर्थः। असंज्ञायामिति किम्? उत्तराः कुरवः। सत्यामेव व्यवस्थायामियं तेषां संज्ञा॥
एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे । पूर्वाः । स्वाऽभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इत्यर्थः । असंज्ञायां किम् । उत्तराः कुरवः ॥
एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम्? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम्? दक्षिणा गाथकाः, कुशला इत्यर्थः॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> 1.1.27 इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं अष्टमं सूत्रम् । इदं विभाषासूत्रम् अस्ति । 'पूर्व', 'पर', 'अवर', 'दक्षिण', 'उत्तर', 'अपर', 'अधर' - एतेषाम् शब्दानाम् पूर्वम् नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते ।
<<पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्>> - अथ सर्वादिगणान्तर्गततिसूत्रीसमानाकारामष्टाध्यायीपठितां पूर्वपरेत्यादित्रिसूत्रीं पुनरुक्तिशङ्कां व्युदस्यन् व्याचष्टे — पूर्वपरा ।सर्वानामानी॑ति॒विभाषा जसी॑ति चानुवर्तते । तदाह — एतेषामिति । पूर्वादिसप्तानामित्यर्थः । गण इति । सर्वादिगण इत्यर्थः । या प्राप्तेति ।सर्वादीनि॑त्यनेन नित्या संज्ञाया प्राप्तेत्यर्थः । अनेन पूर्वपरेति सूत्रं गणपठितं जसोऽन्यत्र नित्यतया सर्वनामसंज्ञार्थम् । अष्टाध्यायीपठितं तु जसि तद्विकल्पार्थमिति न पौनरुक्त्यमिति सूचितम् । स्वाभिधेयेति । अपेक्ष्यत इत्यपेक्षः । कर्मणि घ । स्वस्य=ततश्चनियमेनावधिसापेक्षार्थे वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति । व्यवस्थायां किमिति । पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः । दक्षिणा गाथका इति । अत्र दक्षिणशब्दो नावध्यपेक्ष इति भावः । दक्षिणपार्ावर्तिनो गाथका इत्यत्र कस्मादित्यवध्यपेक्षा अस्त्येवेत्यत आह — कुशला इत्यर्थ इति । यद्यपि प्रावीण्यमपि कस्मादित्यवध्यपेक्षमेव, तथापिउत्तरे प्रत्युत्तरे च शक्त॑ इत्यादि प्रत्युदाहरणं बोध्यमित्याहुः । असंज्ञायां किमिति ।संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याऽप्रसक्तेरिति प्रश्नः । उत्तराः कुरव इति । कुरुशब्दो दोशविशेषे नित्यं बहुवचनान्तः । सुमेरमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था । किं तु संज्ञाशब्दत्वान्नास्य सर्वनामता । पूर्वादिशब्दानां तु दिक्षु अनादिस्सङ्केत इति न ते संज्ञाशब्दाः । कुरुष तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्ययं संज्ञाशब्द इति मन्यते । केचित्त्वसंज्ञायामित्यस्या.ञभावे संज्ञायामेव पूर्वादिशब्दानामप्राप्तविभाषा स्यादित्याहुः ।
असंज्ञायामिति । संज्ञायामसत्याम्, पूर्वादयश्चेत्संज्ञारूपा न भवन्तीत्यर्थः । व्यवस्था उ नियमः, स चात्रार्थादवध्यपेक्ष इत्याह-स्वामिधेयापेक्ष इत्यादि । पूर्वादीनां शब्दानां स्वाभिधेयो दिग्देशकालस्वभावोऽर्थस्तमपेक्षते, तेन वापेक्ष्यते यः स स्वाभिधेयापेक्षः । अवधिः उ मर्यादा; पूर्वदेशस्य यत्पूर्वत्वं तत्परदेशमपेक्ष्य भवति, परस्यापि यत्परत्वं तत्पूर्वदेशम् । एवं दिक्कालयोरपि द्रष्टव्यम् । तस्मात्पूर्वादिशब्दवाच्योऽर्थोऽवश्यमवधिं कञ्चिदपेक्ष्य भवति । तत्र योऽयमपेक्षाया नियमः सा व्यवस्थेति तावद्विवक्षितम् । तस्यां गम्यमानायां पूर्वादिशब्दानां स्वाभिधेय एव वर्तमानानामियं संज्ञा भवति, न तु वाच्यायाम् । प्रवीणा इत्यर्थ इति । अनेन व्यवस्थाभावमाह । न हि प्रवीणशब्द सापेक्षमर्थमाचष्टे । सत्यामेव व्यवस्थायामित्यनेनान्वर्थतां दर्शयति । सुमेरुमवधिमपेक्ष्य कुरुषूतरशब्दो वर्तते, अत्र जसः कार्यं प्रतीति नोक्तम्; विशेषाभावात् ॥