अ अ

8-4-68 अ अ पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

अ अ

Neelesh Sanskrit Brief

Up

प्रक्रियादशायां विवृत: ज्ञापितः ह्रस्वः अकारः इतः परम् संवृतः ज्ञातव्यः ।

Neelesh English Brief

Up

The ह्रस्वः अकारः which was being treated as विवृत during the प्रक्रिया now becomes संवृतः for प्रयोग.

Kashika

Up

एकोऽत्र विवृतः, अपरः संवृतः। तत्र विवृतस्य संवृतः क्रियते। अकारो विवृतः संवृतो भवति। वृक्षः। प्लक्षः। इह शास्त्रे कार्यार्थमकारो विवृतः प्रतिज्ञातः (अइउण्), तस्य तथाभूतस्यैव प्रयोगो मा भूदिति संवृतप्रत्यापत्तिरियं क्रियते। दीर्घप्लुतयोश्चानेन विवृतेनाकारेण ग्रहणं नेष्यते। तेन तयोः संवृतो न भवति। संवृतेन च सर्वगुणस्य मात्रिकस्य ग्रहणमिष्यते। तेन सर्वगुणः प्रत्यापद्यते॥

इष्ट्युपसंख्यानवती शुद्धगणा विवृतगूढसूत्रार्था।

व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम॥

॥ इति श्रीवामनकृतकाशिकावृत्तावष्टमाध्यायस्य तुरीयः पादः समाप्तश्चायमध्यायो ग्रन्थश्च॥

Siddhanta Kaumudi

Up

इति विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं सम्पूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव । तथा च सूत्रम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे प्रक्रियालेखनसमये विवृतरूपेण उपदिष्टः ह्रस्वः अकारः प्रक्रियायाः अनन्तरम् सिद्धशब्दस्य प्रयोगसमये संवृतः भवति — इति अस्य सूत्रस्य आशयः । शिक्षाशास्त्रे सर्वेषाम् वर्णानाम् आभ्यन्तरप्रयत्नाः पृथग् रूपेण उक्ताः सन्ति । तत्र — अकारस्य आभ्यन्तरप्रयत्नः संवृतः, अन्येषाम् स्वराणाम् आभ्यन्तरप्रयत्नः विवृतः — इति निर्दिष्टम् अस्ति । परन्तु एतादृशः भेदः व्याकरणशास्त्रे प्रक्रियानिर्माणसमये स्वीक्रियते चेत् अकार-आकारयोः आभ्यन्तरप्रयत्नस्य भिन्नत्वात् तयोः सवर्णसंज्ञा नैव भवेत्, येन <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यादिभिः सूत्रैः अकार-आकारयोः सवर्णदीर्घः आकारः नैव सिद्ध्येत् । अतः व्याकरणशास्त्रे, प्रक्रियालेखनसमये अकारः विवृतः एव उपदिश्यते । परन्तु एतादृशः उपदेशः उच्चारणशास्त्रविरुद्धः अस्ति, अतः प्रक्रियायाः अन्ते अस्य विवृत-अकारस्य संवृतादेशः आवश्यकः भवति । तदर्थम् एव प्रकृतसूत्रम् पाणिनिना निर्मितम् अस्ति । अस्मिन् सूत्रे विद्यमानाभ्याम् द्वाभ्याम् अकाराभ्याम् प्रथमम् अकारं विवृतम् उच्चार्य, द्वितीयम् अकारं च संवृतम् उच्चार्य विवृतः अकारः संवृतः भवति इति विधानम् पाणिनिना अस्मिन् सूत्रे क्रियते — इति अत्र आशयः । इदं सूत्रम् त्रिपाद्याः अन्तिमं सूत्रम् अस्ति, अतः एतत् सम्पूर्णाम् अष्टाध्यायीं प्रति असिद्धम् अस्ति । अतश्च अनेन सूत्रेण उपदिष्टः संवृतः अकारः अन्यैः सूत्रैः न हि दृश्यते । इत्युक्ते, प्रक्रियायाम् सर्वत्र ह्रस्वम् अकारं विवृतरूपेण एव स्वीकृत्य, प्रक्रियायाः अन्तिमसोपाने प्रकृतसूत्रस्य उपयोगं कृत्वा अकारस्य संवृतविधानं कृत्वा, ततः एव प्रक्रिया सम्पूर्णा भवति । अनेन प्रकारेण प्रक्रियया सिद्धे शब्दे विद्यमानस्य अकारस्य यथोचितम् संवृतरूपेण उच्चारणम् अपि सम्भवति । कुत्रचित् वैयाकरणैः प्रकृतसूत्रस्य अन्ते इति शब्दः माङ्गल्यार्थः अपि संस्थाप्यते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते इति भाष्यवचनम् अनुसृत्य अन्ते इति-शब्दस्य ग्रहणेन मङ्गलवचनेन अष्टाध्याय्याः समापनम् करणीयम् इति तेषाम् आशयः ।

Balamanorama

Up

अ अ । व्याकरणशास्त्रस्येदमन्तिमं सूत्रं द्विपदम् । तत्र अ इति प्रथमं पदं विवृतपरं लुप्तषष्ठीकम् । द्वितीयं तु संवृतपरं लुप्तप्रथमाकम् । ततश्च शिक्षावचनसिद्धं स्वाभाविकं संवृतत्वं प्रच्याव्य वर्णसमाम्नाये विवृतत्वेनोपदिष्टस्य अवर्णस्य संवृतोऽवर्णो भवतीत्यर्थः । तदाह -विवृतमनूद्येति । विधीयत इति । प्रतिप्रसूयत इत्यर्थः । ननु प्रक्रियादशायामप्येतत्सूत्रं कुतो न प्रवर्तत इत्यत आह -अस्य चेति । अस्य = अ अ इति सूत्रस्य, स्वप्राक्तनीं कृत्स्नामष्टाध्यायीं प्रति असिद्धत्वादविद्यमानत्वात् प्रक्रियादशायां विवृतत्वमस्त्येवेत्यन्वयः । ननु प्रक्रियादशायां ह्रस्वावर्णस्य कथं स्वाभाविकात्संवृतत्वात्प्रच्यवः कथं वा विवृतत्वम् ?, तस्य आकादिधर्मत्वादित्यत आह-शास्त्रदृष्ट्येति । असिद्धत्वमिह न वास्तवात्यन्तासत्त्वं विवक्षितम् । किं तर्हि?, अविद्यमानत्वारोपात्मकमेव । एतावता न स्वाभाविकस्य संवृतत्वस्याऽवर्णात् प्रच्यवो, नापि विवृतत्वं तस्य वास्तवम्, प्रक्रियार्थं विवृतत्वस्यारोपादिति भावः । ननु 'अ अ' इति सूत्रस्य कृत्स्नामष्टाध्यायीं प्रत्यसिद्धत्वे किं प्रमाणमित्यत आह-तथा च सूत्रमिति । चो ह्यर्थे । तथा = तेन प्रकारेण बोधकं सूत्रमस्ति हीत्यर्थः ।

Padamanjari

Up

एकोऽत्र विवृतः, परः संवृतः, द्वावप्यविभक्तिकौ, यो विवृतस्स स्थानी, यः संवृतः स आदेशः । किमर्थमकारस्याकारो विधीयते ? इत्याह - इहेति । कार्यार्थमिति । तत्पुनः कार्यमकारस्य दीर्घप्लुताभ्यां सवर्णसंज्ञा, अन्यथा प्रयत्नभेदान्न स्यात्, ततश्च ह्रस्वोऽकारो गृह्यमाणो दीर्घप्लुतौ न गृह्णीयात् । तत्र चदोषः - ठकः सवर्णे दीर्घःऽ, इहैव स्याद् - ऐन्द्राग्नमिति, इह न स्यात् - दण्डाढकमिति । तस्मादेवमादिकार्यार्थमकार इह शास्त्रे विवृतः प्रतिज्ञायते, तत्र यदीयं प्रत्यापतिर्न क्रियेत, तदा तस्य तथाभूतस्यैव प्रयोगः स्यात्, स मा भूदिति प्रत्यापतिरिह क्रियते । इह स्थान्यकारो विवृतोऽण्त्वात् सवर्णानां ग्राहक इति दीर्घप्लुतयोरपि स्थाने संवृतोऽकारः प्राप्नोति, आदेशस्त्वकारः संवृतोऽण् न भवतीति सवर्णानां ग्राहको न प्राप्नोति, भाव्यमानत्वात्; ततश्च यद्गुणः संवृत उच्चारितः, तद्गुण एवाष्टादशभेदभिन्नस्यापि अवर्णस्य प्राप्नोति ? इत्याशङ्क्याह - दीर्घप्लुतयोश्चेति । इष्टिरेवेयम् । यद्वा - तपरनिर्देशात्सिद्धम्, ठदऽ इति सूत्रं कर्तव्यम्, तत्र तः परो यस्मादिति पूर्वोऽकारस्तपरः, तात्परस्तपर इति द्वितीयः, ततश्च स्थान्यकारो दीर्घप्लुतौ न ग्रहीष्यति, आदेशस्त्वनणपि गुणान्तरयुक्ताÄस्तत्कालान् ग्रहीष्यति । एकशेषनिर्देशो वायं द्रष्टव्यः । अत्र षड् मात्रिका अकाराः स्थानिनो निर्दिश्यन्ते, आदेशा अपि षडेव, तत उभयत्रैकशेषः, तत्र षण्णां स्थानिनां निर्देशसामर्थ्यात् स्थानिभिर्दीर्घप्लुतौ भिन्नकालौ न गृह्यएते । ततः षण्णां स्थानिनां स्थाने षडादेशाः संवृता यथासंख्यं भवन्तीति सर्वेष्टसिद्धिरिति शम् ॥