8-4-67 न उदात्तस्वरितोदयम् अगार्ग्यकाश्यपगालवानाम् पूर्वत्र असिद्धम् संहितायाम् अनुदात्तस्य
उदात्तोदयस्य स्वरितोदयस्य चानुदात्तस्य स्वरितो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते, अगार्ग्यकाश्यपगालवानां मतेन। उदात्त उदयो यस्मात् स उदात्तोदयः। उदात्तपर इत्यर्थः। एवं स्वरितोदयः। उदात्तोदयस्तावत् — गार्ग्य॒स्तत्र॑। वात्स्य॒स्तत्र॑। तत्रशब्द आद्युदात्तः। तस्मिन्नुदात्ते परतो गार्ग्यशब्दः स्वरितो न भवति। स्वरितोदयः — गार्ग्यः॒ क्व॑। वात्स्यः॒ क्व॑। क्वशब्दः स्वरितः। तस्मिन् परतोऽनुदात्तः स्वरितो न भवति। अगार्ग्यकाश्यपगालवानामिति किम्? गार्ग्य॑स्तत्र॑। गार्ग्यः॑ क्व॑। तेषां हि मतेन स्वरितो भवत्येव। उदात्तस्वरितपरस्येति वक्तव्य उदयग्रहणं मङ्गलार्थम्। अनेकाचार्यसंकीर्तनं पूजार्थम्॥
उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् । गार्ग्यादिमते तु स्यादेव । प्रय आरुः (प्र य आ॒रुः) । वोश्वाः क्वा 1 भीशवः (वोश्वाः क्वा॑ 1॒ भीश॑वः) ॥
उदातस्वरितावुदयौ यस्मादिति बहुव्रीहिः । उदयशब्दः प्रत्येकमभिसम्बध्यते, यदाह - उदातोदयस्येति । उदयशब्दः परशब्देन समानार्थः प्रातिशाख्येषु प्रसिद्धः । तत्रशब्दो लित्स्वरेणाद्यौदातः, क्वशब्दः'किमो' त्ऽ इत्यत्प्रत्ययान्तस्तित्स्वरितः । उदातस्वरितपरस्येति वक्तव्य इति । एतदप्युपलक्षणम्, उदातस्वरितयोरित्येव वक्तव्यमिति, इत एव परशब्दार्थलाभात् । मङ्गलार्थमिति । उदयशब्दोच्चारणमेव मङ्गलम् । णङ्गलादीनि हि शास्त्राणि प्रथन्ते, मङ्गलमध्यानि मङ्गलान्तामि च वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च । इह चादौ वृद्धिशब्दः, मध्ये शिवशब्दः -'शिवशमरिष्टस्य करे' इति, अन्ते चायमुदयशब्दः ॥