नित्यं समासेऽनुत्तरपदस्थस्य

8-3-45 नित्यं समासे अनुत्तरपदस्थस्य पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः षः इसुसोः

Sampurna sutra

Up

समासे इसुसोः विसर्जनीयस्य कुप्वोः नित्यम् षः सामर्थ्ये, अनुत्तरपदस्थस्य ।

Neelesh Sanskrit Brief

Up

समासस्य विषये - इस्/उस्-प्रत्यययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये नित्यम् षकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् षकारादेशः निषिध्यते ।

Neelesh English Brief

Up

While doing a समास, the विसर्ग of the इस्/उस्-प्रत्यय when followed by a letter from कवर्ग or पवर्ग is always converted to a षकार whenever the words involved in the समास are associated with each other. However, if the पूर्वपद of this समास is a समास on its own, then the षत्व is completely prohibited.

Kashika

Up

इसुसोरिति वर्तते। समासविषय इसुसोर्विसर्जनीयस्यानुत्तरपदस्थस्य नित्यं षत्वं भवति कुप्वोः परतः। सर्पिष्कुण्डिका। धनुष्कपालम्। सर्पिष्पानम्। धनुष्फलम्। अनुत्तरपदस्थस्येति किम्? परमसर्पिःकुण्डिका। परमधनुःकपालम्। पूर्वसूत्रेण विकल्पोऽप्यत्र न भवति। एतदेवानुत्तरपदस्थस्येति वचनं ज्ञापकम् — इसुसोः प्रत्ययग्रहणे <<यस्मात् स विहितस्तदादेः०>> इत्ययं नियमो न भवति। तेन वाक्येऽपि — परमसर्पिष्करोति, परमसर्पिः करोति, <<इसुसोः सामर्थ्ये>>८.३.४४ इत्येतद् भवति। व्यपेक्षा च तत्र सामर्थ्यमाश्रितमिति समासे न भवति॥

Siddhanta Kaumudi

Up

इसुसोर्विसर्गस्यानुत्तरपदस्थस्य समासे नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालकम् । अनुत्तरपदस्थस्येति किम् । परमसर्पिः कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः । व्यपेक्षायां नित्यार्थश्च ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<इसुसोः सामर्थ्ये>> 8.3.45 अनेन सूत्रेण इस्/उस्-प्रत्ययस्य विसर्गात् अनन्तरम् कवर्गस्य/पवर्गस्य वर्णे स्थिते ; सामर्थ्ये सति; सन्धिं कर्तुम् इच्छामश्चेत् ; विसर्गस्य विकल्पेन षत्वं विधीयते । अस्यैव अपवादद्वयम् वर्तमानसूत्रेण विधीयते - 1) समस्तपदस्य निर्माणम् भवति, तर्हि तत् षत्वम् नित्यम् भवति । 2) यदि समस्तपदस्य निर्माणे पूर्वपदमपि स्वयं कश्चन समासः अस्ति चेत नित्यम् निषिध्यते । उदाहरणानि - 1) 'धनुषः काण्डम्' अत्र षष्ठी-तत्पुरुषसमासे कृते 'धनुः + काण्डम्' इति स्थिते <<इसुसोः सामर्थ्ये>> 8.3.44 इत्यनेन केवलं विकल्पेन षत्वे प्राप्ते वर्तमानसूत्रेण नित्यं षत्वादेशः भवति । यथा - धनुष्काण्डम् । 2) 'शिवधनुषः काण्डम्' अत्र षष्ठी-तत्पुरुषसमासे कृते 'शिवधनुः + काण्डम्' इति स्थिते <<इसुसोः सामर्थ्ये>> 8.3.44 इत्यनेन केवलं विकल्पेन षत्वे प्राप्ते वर्तमानसूत्रेण अत्र षत्वम् नित्यम् निषिध्यते, यतः अस्मिन् समासे प्रयुक्तम् पूर्वपदम् स्वयमेव समस्तपदमस्ति । अतः अत्र केवलम् <<कुप्वोः≍क≍पौ च>> 8.3.37 इत्यनेन वैकल्पिकः जिह्वामूलीयः भवति । यथा - शिवधनुःकाण्डम्, शिवधनु≍काण्डम् । 3) 'धनुः काण्डम् छिन्नति' अस्मिन् वाक्ये 'धनुः' तथा 'काण्डम्' एतयोः योजनेन समस्तपदम् न जायते, परन्तु अत्र द्वयोः शब्दयोः मध्ये अन्वयः अस्ति एव । अतः अत्र <<इसुसोः सामर्थ्ये>> 8.3.44 अनेन सूत्रेण विकल्पेनैव षत्वादेशः भवति । अत्र वर्तमासूत्रस्य प्रसक्तिः नास्ति । यथा - धनुष्काण्डम्, धनु≍काण्डम्, धनुःकाण्डम् । ज्ञातव्यम् - 'कस्कादिगण' नाम कश्चन गणः गणपाठे दत्तः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । 'सर्पिष्कुण्डिका' , 'धनुष्कपालम्', यजुष्पात्रम्' एते शब्दाः अस्मिन् गणे निर्दिष्टाः सन्ति । वस्तुतः वर्तमानसूत्रेण समासे कृते एतेषु षत्वम् विधीयते एव । परन्तु एते शब्दाः कस्कादिगणे सन्ति, अतः एतेषाम् शब्दानाम् विषये 'सर्वदा' षत्वम् भवतीति ज्ञातव्यम् । इत्युक्ते - समासः भवेत् वा न भवेत् ; सामर्थ्यम् भवेत् वा न भवेत् ; पूर्वपदम् स्वयं समस्तपदम् स्यात् वा न स्यात् - सर्वासु स्थितिषु एतेषाम् विषये षत्वम् भवति इत्यर्थः । यथा - 'तिष्ठतु सर्पिः, कुण्डिकामानय' अस्मिन् वाक्ये यद्यपि सामर्थ्यम् नास्ति तथापि संहितायाम् सत्याम् विसर्गस्य षत्वं कृत्वा 'तिष्ठतु सर्पिष्कुण्डिकामानय' इत्येव सिद्ध्यति । तथैव, 'धनुः कपालम् छिन्नति' इत्यत्रापि षत्वे कृते 'धनुष्कपालं छिनत्ति' इति जायते ।

Balamanorama

Up

Padamanjari

Up

परसमर्पिष्कुण्डिकेति । ननु च ठर्चिशुचिहुसृपिच्छदिच्छादिभ्य इसिःऽ,'जनेरुसिः' , ठतिपयजितनिधनिवपिभ्यो नित्ऽ इत्येवं सर्पिः, यजुरित्यादय इसुसन्ता व्युत्पाद्यन्ते, ततश्च प्रत्ययग्रहणपरिभाषया सर्पिरादीनामेवेसुसन्तत्वम्, न परमसर्पिरादीनाम्, तत्कथमत्र प्रसङ्गः; अवश्यं चोणादीनामपि व्युत्पत्तिपक्ष एवाश्रयणीयः; अव्युत्पत्तिपक्षे ह्याश्रीयमाणे सर्पिषा, यजुषेत्यादौ षत्वं न सिद्ध्यति, अप्रत्ययसकारत्वात्; तस्मादनर्थकमनुतरपदग्रहणम् ? अत आह - एतदेवेत्यादि । ज्ञापनस्य प्रयोजनमाह -तेनेति । अथ पूर्वसूत्रेण समासेऽपि विकल्पः कस्मान्न भवति ? इत्यत आह -व्यपेक्षा चेति । केचितु'ठ्ठ्नित्यं समासे' इत्येको योगः, ठनुतरपदस्थस्यऽ इति द्वितीय इति योगविभागेन समासे सर्वा षत्वप्राप्तिरुतरपदस्थस्य प्रतिषिध्यते' इति वदन्तः पूर्वत्र द्विविधेऽपि सामर्थ्ये समाश्रिते न दोष इत्याहुः ॥