जपजभदहदशभञ्जपशां च

7-4-86 जपजभदहदशभञ्जपशां च अभ्यासस्य यङ्लुकोः नुक्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जप जभ दह दश भञ्ज पश इत्येतेषामभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः। जञ्जप्यते जञ्जपीति। जभ जञ्जभ्यते। जञ्जभीति। दह दन्दह्यते। दन्दहीति। दश दन्दश्यते। दन्दशीति दश इति दंशिः अयं नकारलोपार्थम् एव निर्दिष्टः। तेन यङ्लुक्यपि नकारलोपो भवति। भञ्ज बम्भज्यते। बम्भञ्जीति। पश इति सौत्रो धातुः पम्पश्यते। पम्पशीति।

Siddhanta Kaumudi

Up

एषामभ्यासस्य नुक् स्याद्यङ्यङ्लुकोः । गर्हितं जपति । जञ्जप्यते इत्यादि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

'जप जल्प व्यक्तायां वाचि' ,'जभ जृभी गात्रविनामे' ,'दह भस्मीकरणे' ,'दन्श दशने' ,'भन्जो आमर्दने' ,'पश' इति सौत्रो धातुः । जञ्जप्यत इत्यादिचतुर्षु'लुपसद' इत्यादिना यङ्, इतरत्र सामान्यलक्षणेन ॥