7-4-58 अत्र लोपः अभ्यासस्य
index: 7.4.58 sutra: अत्र लोपोऽभ्यासस्य
यदेतत् प्रक्रान्तं सनि मीमा इत्यादि मुचोऽकर्मकस्य इति यावत्, अत्र अभ्यासलोपो भवति। तथैव उदाहृतम्। अभ्यासस्य इत्येतच् च अछिकृतं वेदितव्यमा अध्यायपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामः अभ्यासस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति, ह्रस्वः 7.4.59 डुढौकिषते। तुत्रौकिषते। सनि मीमाधुरभलभशकपतपदामच इस्, अभ्यासलोपश्च, इत्येवम् सिद्धे यदत्रग्रहनम् इह अक्रियते, तद् विषयावधारणार्थम्, अत्रैव अभ्यासलोपो भवति, सन्वद्भावविषये न भवति। अमीमपत्। अदीदपत्। सन्वल्लघुनि चङ्परेऽनग्लोपे 7.4.93 इति सन्वद्भावात् प्राप्नोति। सर्वस्य अभ्यासस्य अयं लोपः इष्यते, तदर्थम् एव केचितत्रग्रहणं वर्णयन्ति। नानर्थकेऽलोऽन्त्यविधिः इत्यपरे सर्वस्य कुर्वन्ति।
index: 7.4.58 sutra: अत्र लोपोऽभ्यासस्य
सनिमीमा - <{SK2623}> इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् । आप्तुमिच्छति ईप्सति । अर्धितुमिच्छति । रपरत्वम् । चर्त्वम् । ईर्त्सति । अर्दिधिषति । बिभ्रज्जिषति । बिभर्जिषति । बिभ्रक्षति । बिभर्क्षति ॥
index: 7.4.58 sutra: अत्र लोपोऽभ्यासस्य
अत्र लोपोऽभ्यासस्य - अत्र लोपोऽभ्यासस्य ।सनि मीमे॑तिआप्ज्ञप्यृधामी॑दितिदम्भ इच्चे॑ति ,मुचोऽकर्मकस्य गुणो वे॑ति पूर्वसूत्रचतुष्टयविहितकार्यमत्रेत्यनेन परामृश्यते । तदाह — सनि मीमेत्यारभ्यते । सूत्रचतुष्टकार्ये कृते सतीत्यर्थः । ईप्सतीति । आप् धातोः सनि आकारस्य इत्त्वेअजादेर्द्वितीयस्ये॑ति प्स इत्यस्य द्वित्वेऽभ्यासलोप इति भावः । रपरत्वमिति । ऋधेः सनि इडभावे ऋकारस्य ईत्त्वे रपरत्वमित्यर्थः । चर्त्वमिति । ईर्ध् स इति स्थिते धस्य चर्त्वे 'न न्द्राः' इति रेफं वर्जयित्वाअजादेर्द्वितीयस्ये॑ति, 'त्स' इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः ।पूर्वत्राऽसिद्धीयमद्वित्वे॑ इति वचनाच्चर्त्वे कृते द्वित्वमिति बोध्यम् । इट्पक्षे आह — अर्दिधिषतीति । सनः सादित्वाऽभावादीत्त्वाऽभावे गुणे रपरत्वे अर्ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भावः । भ्रस्ज्धातोः सन इटिभ्रस्जो रोपधयो॑रिति रमागमाऽभावे आह — बिभ्रज्जिषतीति । सस्य श्चुत्वेन शः, शस्य जश्त्वेन जः । क्ङिदभावात्ग्रहिज्ये॑ति संप्रसारणं न । बिभर्जिषतीति । इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते अकारादुपरि साकरात्प्राग्रेफागमे भकाराद्रेफस्य सकारस्य च निवृत्तौ भर्ज् इस इति स्थिते भर्ज् इत्यस्य द्वित्वं हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम् । तदेवमिट्पक्षे रमागमतदभावाभ्यां रूपद्वयम् । बिभ्रक्षतीति । इडभावे रमागमाऽभावे च रूपम् । जस्य कुत्वं सस्य षः । बिभक्र्षतीति । इडभावे रमागमे च रूपम् । तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे ।
index: 7.4.58 sutra: अत्र लोपोऽभ्यासस्य
अत्रशब्दस्यार्थं दर्शयति - यदेतदिति । अथात्रग्रहणं किमर्थम् ? अत्र'सनिमीमा' इत्यादौ प्रकरणे यथा स्याद्; ददौ, ददातीत्यत्र मा भूदिति । नैतदस्ति प्रयोजनम्, एवं वक्ष्यामि -'सनि मीमाघुरभलभशकपतपदामच इसभ्यासलोपश्च' - इति, उतरत्रापि ठभ्यसलोपश्चऽ इत्येव ? तत्राह - सनि मीमाध्वित्यादि । विषयावधारणमुविषयर्नियमः । कः पुनरसौ ? इत्यत आह - अत्रैवेत्यादि । अवधारणस्य व्यवच्छेद्यं दर्शयति - सन्वद्भावविषये न भवतीति । अमीमपदिति । मिञो णिचि'मीनातिमिनोति' इत्यात्वम्, पुक, लुङ्, चङ् इद्विर्वचनम्, सन्वद्भावादित्वम्,'दीर्घो लघोः' । कथं पुनः सनीत्युच्यमानस्याभ्यासलोपस्यात्र प्रसङ्गः ? इत्यत आह - सन्वल्लघुनीति । यथैव हि सन्वद्भावेनेत्वं भवति, तथाभ्यासलोपोऽपि स्यात्, ठलोऽन्त्यस्यऽ लोपेन भवितव्यमित्याशङ्कायामाह - सर्वस्येति । कथं पुनः सर्वस्य लभ्यते ? अत आह - तदर्थमेवेति । ठितराभ्योऽपि दृश्यन्तेऽ इति षष्ठ।ल्न्तात्रल् । योऽयमभ्यासः प्रसिद्धोऽस्य लोपः, न तदन्तस्येत्यर्थः । विषयावधारणं त्वन्यथापि सिद्धम् । सन्वल्लघुनीति न कार्यमतिदिश्यते, किं तर्हि ? रूपम् । लोपश्चासावभावरूपो न रूपमिति नातिदिश्यते । नानर्थकेऽलोन्त्यविधिरित्यपरे सर्वस्य कुर्वन्तीति । ठनभ्यासविकारेषुऽ इति तु प्रतिषेधो न भवति; लोपस्याविकारत्वात् । तथा च पस्पशायाम् -'लोपागमवर्णविकारज्ञः' इति पृथग्ग्रहणम्,'द्वौ चापरौ वर्णविकारनाशौ' इति च पृषोदरादिसूत्रे । अन्वयव्यतिरेकाभ्यामर्थवतावधार्यते, न चाभ्यासस्योपजनने कश्चिदर्थः प्रतीयत इत्यभ्यासस्यानर्थक्यम् ॥