7-4-56 दम्भः इत् च सि सनि अचः ईत्
index: 7.4.56 sutra: दम्भ इच्च
दम्भेः अच इकारादेशो भवति, चकारातीत् च सनि सकारादौ परतः। धिप्सति, धीप्सति। सि इत्येव, दिदम्भिषति।
index: 7.4.56 sutra: दम्भ इच्च
दम्भेरच इत्स्यादीच्च सादौ सनि । अभ्यासलोपः । हलन्ताच्च <{SK2613}> इत्यत्र हल्ग्रहणं जातिपरमित्युक्तम् । तेन सनः कित्त्वान्नलोपः । धिप्सति । धीप्सति । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । उदोष्ठ्यपूर्वस्य <{SK2494}> । सुस्वूर्षति । सिस्वरिषति । युयूषति । यियविषति । ऊर्णुनूषति । ऊर्णुनुविषति । ऊर्णुनविषति । न च परत्वाद्गुणावादेशयोः सतोरभ्यासे उकारो न श्रूयेतेति वाच्यम् । द्विर्वचनेचि <{SK2343}> इति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशादादेशमनिषेधाद्वा । न च सन्नन्तस्य द्वित्वं प्रति कार्यित्वान्निमित्तता कथमिति वाच्यम् ॥ [(परिभाषा - ) कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते न त्वननुभवन्नपि] ॥ न चेह सन् द्वित्वमनुभवति । बुभूर्षति । बिभरिषति । ज्ञपिः पुगन्तो मित्संज्ञकः पकारान्तश्चौरादिकश्च । इडभावे इको झल् <{SK2612}> इति कित्त्वान्न गुणः । अज्झन - <{SK2614}> इति दीर्घः परत्वाण्णिलोपेन बाध्यते । आप्ज्ञप् - <{SK2619}> इति ईत् । ज्ञीप्सति । जिज्ञपयिषति । अमितस्तु । जिज्ञापयिषति । जनसन - <{SK2504}> इत्यात्वम् । सिषासति । सिसनिषति ।<!तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः !> (वार्तिकम्) ॥
index: 7.4.56 sutra: दम्भ इच्च
दम्भ इच्च - दम्भ इच्च ।सनि मीमे॑त्यतः सनीति, अचेति चानुवर्तते । चकारात्आप्ज्ञप्यृधा॑मिति सूत्रादीदिति समुच्चीयते ।सः सी॑त्त सीत्यनुवृत्तं सनो विशेषणं, तदादिविधिः । तदाह — दम्भेरच इत्यादि । अभ्यासलोप इति । 'अत्र लोपः' इत्यनेने॑ति शेषः । दिम्भ् स इति स्थिते इक्समीपादनुस्वारादव्यवहितपरत्वाऽभावेऽपि हलन्तादित्यस्य प्रवृत्तिमुपपादयति — हलन्ताच्चेत्यत्रेति । हल्ग्रहणं हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिरपरिमिति प्रागुक्तमित्यर्थः । ततः किमित्यत आह — तेनेति । धिप्सतीति ।सनीवन्ते॑ति इडभावे इत्त्वे रूपम् । धीप्सतीति । इडभावे इत्त्वे च रूपम् । दिदम्भिषतीति । इट्पक्षे सनो झलादित्वाऽभावादकित्त्वान्नलोपो नेति भावः । शिश्रीषतीति ।सनीवन्ते॑ति इडभावेअज्जने॑ति दीर्घः । सनः कित्तवान्न गुणः । इट्पक्षे आह — शिश्रयिषतीति । अझलादित्वान्न कित्त्वं, नाप्यज्झनेति दीर्घः । स्वृधातोः सनि ऋकारस्य उत्त्वविधिं स्मारयति — उदोष्ठएति । सुस्वूर्षतीति ।सनीवन्ते॑ति इडभावे ऋकारस्यअज्झने॑ति दीर्घे कृते उत्त्वे रपरत्वेउपधायां चे॑ति दीर्घ इति भावः । सिस्वरिषतीति । 'स्वृ ' इत्स्य द्वित्वे उदरत्वे इत्तवमिति भाव- । युयूषतीति ।सनीवन्ते॑ति इडभावेअज्झने॑ति दीर्घः । यियविषतीति । इट्पक्षेद्विर्वचनेऽची॑ति गुणनिषेधात्यु॑इत्यस्य द्वित्वम् ।ओः पुयण्जी॑तीत्त्वमिति भावः । ऊर्णुनूषतीति ।सनीवन्ते॑ति इडभावपक्षे 'न न्द्रा' इति रेफं वर्जयित्वा नुस् इत्यस्य द्वित्वेअज्झने॑ति दीर्घः ।इको झलि॑ति सनः कित्त्वान्न गुणः । इट्पक्षे तुविभाषणोर्णो॑रिति सनो ङित्त्वविकल्पं मत्वाह -ऊर्णुनुविषति । ऊर्णुनविषतीति । ङित्त्वपक्षे गुणाऽभावान्नुशब्दस्य द्वित्वे उत्तरखण्डे उवङ् । ङित्त्वाऽभावपक्षेनु॑इत्यस्य द्वित्वे उत्तरखण्डस्य गुणावादेशाविति भावः । उभयत्राप्यभ्यासे उवर्णः श्रूयते । ननु ङित्त्वाऽभावपक्षे ऊर्णुं इस इति स्थिते द्वित्वात्, प्रागेव परत्वाद्गुणे अवादेशे च कृते नव्शब्दस्य द्वित्वेऽभ्यासस्याऽत इत्त्वे ऊर्णिनविषतीति अभ्यासे इकार एव श्रूयेत, नतु उकार इत्याशङ्क्य निराकरोति — द्विर्वचनेऽचीति । अस्मिन् सूत्रेस्थानिव॑दित्यनुवत्र्य रूपातिदेशं चाश्रित्य द्वित्वनिमित्ते अचि परे योऽजादेशः स द्वित्वे कर्तव्ये स्थानिरूपं प्रतिपद्यते इत्येकोऽर्थः ।न पदान्ते॑त्यतो नेत्यनुवर्त्त्य द्वित्वनिमित्ते अचि योऽजादेशः स न स्याद्द्वित्वे कर्तव्ये इत्यन्योऽर्थः । तत्र प्रथमव्याख्याने तु कृतस्यापि गुणस्य स्थानिभूतोकाररूपप्रतिपत्त्यानु॑इत्यस्य द्वित्वे अभ्यासे उकार एव श्रूयते । द्वितीव्याख्यानेऽपि द्वित्वात् प्राग्गुणस्य निषिद्धतया नुशब्दस्यैव द्वित्वे अभ्यासे उकार एव श्रूयते इति भावः । ननु ऊर्णु इस इति सन्नन्तस्य द्वित्वरूपकार्यभाक्त्वेन तदन्तर्गतसय् इस इत्यस्यापि कार्यित्वान्न द्वित्वनिमित्तत्वम्,नहि कार्यी निमित्ततया आश्रीयते॑ इत्युक्तेः । तथा च द्वित्वे कर्तव्ये द्वित्वनिमित्ताऽच्परकादेशस्य क्रियमाणो निषेधः कथमिह गुणस्य प्रसज्यते इत्याशङ्क्य निराकरोति — न च सन्नन्तस्येति । कार्यमनुभवन्निति । अत्र व्याख्यानमेव शरणम् । न चेह सन्निति । कितं नुशब्द इत्यर्थः । बुभूर्षतीति ।सनीवन्ते॑ति इडभावपक्षे भृ स इति स्थितेअज्झने॑ति दीर्घेउदोष्ठपूर्वस्ये॑त्युत्त्वे रपरत्वे उत्तरखण्डस्यहलि चे॑ति दीर्घः । सनः कित्त्वान्न गुण इति भावः । इट्पक्षे आह — बिभरिषतीति । भृ इस इति स्थिते द्वित्वे उरदत्वे रपरत्वे हलादिशेषे अभ्यासस्य अत इत्त्वे उत्तरखण्डस्य गुणे रपरत्वमिति भावः । ज्ञपिः पुगन्तो भित्संज्ञक इति ।सनीवन्ते॑ति सूत्रे गृह्रते॑ इति शेषः ।मारणतोषणनिशामनेषु ज्ञे॑ति घटादौ ।ततो हेतुमण्णौ पुकि घटादित्वेन मित्त्वादुपधाह्रस्वे ज्ञपीति ण्नय्तो गृह्रत इत्यर्थः । पकारान्तश्चौरादिकश्चेति ।ज्ञप मिच्चे॑ति यः स्वतः परकारान्तः पठितश्चुरादौ, न तु पुगन्तः, सोऽपिसनीवन्ते॑ति सूत्रे गृह्रते इत्यर्थः । इडभावे इति । उभयविधादपि ण्यन्ताज्ज्ञपीत्यस्मात्सनि इडभावपक्षे णेः परसय् सनः 'इको झल्' इति कित्त्वाण्णेर्गुणो नेत्यर्थः । परत्वादिति । णेर्लोपे सति अचोऽभावान्न दीर्घ इति भावः । तथा च 'ज्ञी' बित्यस्य द्वित्वे हलादिशेषे 'अत्र लोपःर' इत्यभ्यासलोपे परिनिष्ठितमाह — ज्ञीप्सतीति । इट्पक्षे आह — जिज्ञपयिषतीति । सनधातोः सनि आह — जनसनेत्यात्त्वमिति ।नकारस्ये॑ति शेषः । सिषासतीति । आत्त्वे कृते सा इत्यस्य द्वित्वे अभ्यासस्य ह्रस्वे अत इत्त्वे षत्वे रूपम् । नचस्तौतिण्योरेवे॑ति नियमान्न ष इति शङ्क्यं, सनः षत्वे सत्येव तत्प्रवृत्तेः । इट्पक्षे त्वाह — सिसनिषतीति । अत्रजनसने॑त्यात्त्वं तु न, सनो झलादित्वाऽभावात् ।स्तौतिण्योरेवे॑ति निमयान्न ष इति भावः । तनिपतीति । प्राप्तविभाषेयम् ।
index: 7.4.56 sutra: दम्भ इच्च
धिप्सति, धीप्सतीति ।'हलन्ताच्च' इति सनः कित्वादुपधालोपः, भकारस्य चर्त्वम् । इत्वं शक्यमविधातुम्; एवं वक्ष्यामि -'सनिमीमादीनामच इस् दम्भ ईच्च' , चकारादिस्भावश्च, ततः ठाप्ज्ञप्यृधामित्ऽ इत्येव ॥