हलन्ताच्च

1-2-10 हलन्तात् च कित् संश्च इकः झल्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इकः सन् झल् किदिति वर्तते। समीपवचनोऽन्तशब्दः। हल् चासावन्तश्च हलन्तः। इगन्ताद् इक्समीपाद् हलः परः सन् झलादिः किद् भवति। बिभित्सति। बुभुत्सते। इक इत्येव — यियक्षते। झलित्येव — विवर्तिषते। दम्भेर्हल्ग्रहणस्य जातिवाचकत्वाद् सिद्धम्। धीप्सति। धिप्सति॥

Siddhanta Kaumudi

Up

इक्समीपाद्धलः परो झलादि सन् कित्स्यात् । गुहू । जुघुक्षति । बिभित्सति । इकः किम् । यियक्षते । झल्किम् । विवर्धिषते । हल्ग्रहणं जातिपरम् । तृन्हू । तितृक्षति । तितृंहिषति ॥

Laghu Siddhanta Kaumudi

Up

इक्समीपाद्धलः परो झलादिः सन् कित्। निविविक्षते॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<हलन्ताच्च>> - हलन्ताच्च ।इको झ॑लिति पूर्वसूत्रमनुवर्तते ।रुदविदमुषे॑त्यतः सनिति,॒असंयोगाल्लि॑डित्यतः किदिति च ।ह॑लिति लुप्तपञ्चमीकं पदम् । अन्तशब्दः समीपवाची । तदाह — इक्समीपादित्यादि । जुघुक्षतीति । सनः कित्त्वान्न गुणः ।सनि ग्रहगुहोश्चे॑त्यूदित्त्वेऽपि नित्यं नेट् । हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः । बिभित्सतीति । भिदेः सनः कित्त्वान्न गुणः । यियक्षते इति । अत्र हलः इक्समीपत्वाऽभावान्न कित्त्वम् । सति तु कित्त्वे यजेः संप्रसारणं स्यादिति भावः । विवर्धिषते इति । वृधेः सनि रूपम् । अत्र सन इटि झलादित्वं नेति भावः । ननु 'तृंहू हिंसायाम्' तुदादिर्नोपधोऽयम् । कृतानुस्वारस्य निर्देशः । अस्मात्सनःअनिदिता॑मिति नलोपार्थं कित्त्वमिष्यते । तन्नोपपद्यते । न ह्यत्र इक्समीपादनुस्वारात्सन् परो भवति, हकारेण व्यवधानात् । हकारात्तु परः सन् इक्समीपाद्धलः परो न भवति, अनुस्वारेण व्यवधानादित्यत आह — हल्ग्रहमं जातिपरमिति । हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिपरमित्यर्थः । तृंह्विति । तृंहूधातोः प्रदर्शनामिदम् ।तितृक्षतीति.ऊदित्त्वादिडभावपक्षे रूपम् । सनः कित्त्वान्नलोपः, लघूपधगुणाऽभावश्च । ढत्वकत्वषत्वानि । इट्पक्षे आह — तितृंहिषत#ईति । झलादित्वाऽभावेन कित्त्वाऽभावान्नलोपो नेति भावः ।

Padamanjari

Up

समीपवचनोऽन्तशब्द इति । अवयववचनस्तु न भवति, धातावन्यपदार्थे ऽयेन विधिस्तदन्तस्यऽ इत्येव तदन्तविधेः सिद्धत्वात् । इकस्त्वन्यपदार्थत्वं नैव सम्भवति, न हि वर्णो वर्णान्तरस्यावयव उपपद्यते । हल् चासावन्तश्चेति । कर्मधारयं दर्शयति । निपातनाद्विशेषणस्य परनिपातः । तत्र च कस्यान्तो हलितयपेक्षायामिक इति पञ्चम्यन्तं सन्निहितं षठ।ल्न्तं विपरिणम्यत इत्याह-इगन्तादिति । इकमपेक्षमाणस्याप्यन्तशब्दस्य नित्यसापेक्षत्वात् सूत्रे कर्मधारयः, बहुव्रीहौ तु धातोरन्यपदार्थत्वं नैव सम्भवति, अन्तशब्दो हि नियतदेशमेव समीपमाचष्टे परं नाम, न समीपमात्रम् । न च धातोः परसमीपावस्थिते हलि ततः परः सन्सम्भवति; इकि त्वन्यपदार्थे-यस्येकः परसमीपे हल् न तस्यानन्तरः सू सम्भवतीत्येकेन हला व्यवधाने विज्ञायेतेति धिप्सतीत्यत्र न स्याद् । हलिति जातिग्रहणात् सिद्धावपि प्रतिपतिगौरवप्रसङ्गः । ननु च मा भूदन्तग्रहणम्, ऽहलःऽ इत्येवास्तु, इका हल्विशेष्यते, तेन च धातुः-इकः परो यो हल् तदन्ताद्धातोरिति । न चैवमत्र शङ्कनीयम् - 'असत्यन्तग्रहणे इग्वतो हलन्तादिति विज्ञायेत, ततश्च यजेः सन् ऽसन्यतःऽ यियक्षते इत्यत्रापि कित्वे सति संप्रसारणं प्राप्नोति' इति; न हीक्च्छब्दस्य मुख्येऽर्थे सम्भवति तद्वति वृत्तिर्युक्ता, किं च ऽइग्वतःऽ इत्यस्य व्यावर्त्यमपि न सम्भवति । यायज्यतेः सनि यायजिषत इत्यत्र सन्न झलादिः । तस्मादन्तग्रहणं चिन्त्यप्रयोजनम् । इह धीप्सतीति य इक्समीपे हल् नकारो न ततः परः सन्, यतश्च परः सन् भकारात् न स इक्समीप इति कित्वं न स्यादित्यत आह-दम्भेरिति । दम्भेरपि परस्य सनः कित्वं सिद्धम्, कुतः ? हल्ग्रहणस्य जातिवाचकत्वात् । ऽतत्प्रयोजकःऽ इतिवत्समासः । जातिवाची हल्शब्दः, एकैव च जातिर्नकारभकारयोः । व्यक्तिद्वारकं च जातेरिक्समीपत्वं तदपेक्षयात्र सनः परत्वम् । भकारव्यक्तिरिक्समीपे वर्तत इति जातिरपि वर्तते, भकारव्यक्तेः परः सन्निति जातेरपि परः । विपर्ययस्तु सन्नपि शास्त्रेणानाश्रितत्वादकिञ्चित्करः । नकारव्यक्तिरिक्समीपे न वर्तत इति जातिरपि न वर्तते । नकारव्यक्तेः परः सन्न भवतीति जातेरपि परो न भवतीति । धीप्सतीति । ऽदम्भ इच्चऽ कित्वादुपधालोपः ऽएकाचो बशो भष् झषन्तस्य स्ध्वोःऽ इति भष्भावः, द्विर्वचनम्, ऽअत्र लोपोऽभ्यासस्यऽ ॥