7-4-14 न कपि ह्रस्वः अणः
index: 7.4.14 sutra: न कपि
कपि प्रत्यये परतोऽणो ह्रस्वो न भवति। बहुकुमारीकः। बहुवधूकः। बहुलक्ष्मीकः। गोस्त्रियोरुपसर्जनस्य 1.2.48 इत्ययमपि ह्रस्वः कपि न भवति। समासार्थे हि उत्तरपदे कपि कृते, पश्चात् कबन्तेन सह समासेन भवितव्यम् इति स्त्रीप्रत्ययान्तसमासप्रातिपदिकं न भवति।
index: 7.4.14 sutra: न कपि
कपि परे अणो ह्रस्वो न स्यात् । कल्याणपञ्चमीकः पक्षः । अत्र तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकतृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । स्वसा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । अबला । तनया । सामान्ये नपुंसकम् ॥ दृढं भक्तिर्यस्य स दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढाभक्तिः ॥
index: 7.4.14 sutra: न कपि
न कपि - न कपि । अणो ह्रस्व इति.॒केऽणः॑ इत्यतः,शृदृप्रा॑मित्यतश्च तदनुवृत्तेरिति भावः । ननुकल्याणपञ्चमीकः पक्ष॑ इत्यत्र पञ्चदशाहोरात्रात्मके पक्षेऽन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात्प्राधान्यं दुर्वारमित्यत आह — अत्र तिरोहितेति । रात्रे तत्प्रवेशाऽभावादप्राधान्यमिति भावः । भाष्ये एवमुदाहरणेवात्र लिङ्गम् । ऋदन्तोत्तरपदात्कपमुदाहरति — बहुकर्तृक इति । बहवः कर्तरो यस्येति विग्रहः । तदेवमपूरणीप्रियादिषित्यत्र पूरणीविषयं प्रपञ्च्य प्रियादिषु परेषु पुंवद्भावनिषेधस्य प्रयोजनं पृच्छति — अप्रियादिषु किमिति । कल्याणीप्रिय इति । कल्याणी प्रिया यस्येति विग्रहः । प्रियादिगणं पठति — प्रिया मनोज्ञेत्यादि । ननु भक्तिशब्दस्य प्रियादिषु पाठे दृढा भक्तिर्यस्य स दृढभक्तिरित्यत्र कथं पुंवत्त्वमित्यत आह — सामान्ये नपुंसकमिति ।आश्रित्ये॑ति शेषः । दृढमिति । पदसंस्कारपक्षे सामान्यपरतच्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः, ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंसकत्वं नापैति, लिङ्गविशेषस्याऽविवक्षितत्वात्,वेदाः प्रमाण॑मितिवत् । अत्र चार्थे पस्फशाह्निकभाष्येशक्यं चानेन आमांसादिभिरपि क्षुत्प्रतिहन्तु॑मिति प्रयोगो लिङ्गम् । नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह — स्त्रीत्वविवक्षायां त्विति । वाक्यसंस्कारपक्षे विशेष्यानुसारेण स्त्रीत्वप्रतीतेर्नियमादिति भावः ।
index: 7.4.14 sutra: न कपि
बहुकुमारीक इत्यादौ'नद्यःतश्च' इति कप् । अथात्रास्मिन्प्रतिषिद्धे उपसर्जनह्रस्वत्वं कस्मान्न भवति ? अत एव प्रतिषेधात् । नायमस्य ह्रस्वस्य प्रतिषेधः, किं तर्हि ? अनन्तरस्य'के' णःऽ इत्यस्य । कुत एतत् ? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो षाऽ इति । एवं तर्ह्याह - अयं कपि ह्रस्वो न भवतीति । यदि चोपसर्जनहस्वत्वं स्यात्, वचनमिदमनर्थकं स्यात् । अतो वचनसामर्थ्याद्यच्च यावच्च ह्रस्वत्वं तस्य प्रतिषेधो भविष्यति । अस्ति वचनस्यावकाशो यत्रोपसर्जनह्रस्वत्वं न प्राप्नोति, अस्त्रीप्रत्यये - बहुयवागूकः, बहुलक्ष्मीक इति, स्त्रीप्रत्यये उपसर्जनह्रस्वत्वं स्यादेव । तत्राह - गोस्त्रियोरुपसर्जनस्येत्ययमपीति । कुतः ? इत्यत आह - समासार्थं हीति ।'समासान्ताः' इत्यत्रान्तशब्दोऽवयववचनः । कथं च कप्समासावयवो भवति ? यदि तेन सह समासो भवति । कथं च तेन समासो भवति ? यद्यकृत एव समासे तदर्थादुतरपदात् कब्भवति, पश्चातदन्तेन समासः । ननु च कपः पूर्वं सुबन्तम्, तत्कर्थं कबन्तेन समासः ? वचनात्समासान्तेष्वसुबन्तेन समासः । अपर आह - ठुतरपदे या विभक्तिस्तस्याश्च या प्रकृतिस्तयोर्मध्ये विकरणवत्समासान्तः, तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्सुबन्तेन समासःऽ इति; एवं वदतो दोषः; बहुचर्मिकेत्यादौ'प्रत्ययस्थात्' इतीत्वं न स्यात् । किं कारणम् ? कात्परः सुप्, ततः परष्टाप्, यथा - बहुपरिव्राजका मथुरेति । यदि कपि कृते पश्चातदन्तेन समासः, किमायातम् ? इत्यत आह - स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवतीति ।'गोस्त्रियोः' इत्यत्र प्रातिपदिकस्येति वर्तते, स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासे सति, न चोक्ते प्रकारे कपः पूर्वभागस्य समासत्वं प्रातिपदिकत्वं वा समस्ति, तस्मान्नोपसर्जनह्रस्वत्वमिति ॥