आपोऽन्यतरस्याम्

7-4-15 आपः अन्यतरस्याम् ह्रस्वः न कपि

Kashika

Up

index: 7.4.15 sutra: आपोऽन्यतरस्याम्


आबन्तस्याङ्गस्य कपि ह्रस्वः न भवत्यन्तरस्याम्। बहुखट्वाकः, बहुखट्वकः। बहुमाल कः बहुमालकः।

Siddhanta Kaumudi

Up

index: 7.4.15 sutra: आपोऽन्यतरस्याम्


कप्याबन्तस्य ह्रस्वो वा स्यात् । बहुमालाकः । बहुमालकः । कबभावे तु बहुमालः ॥

Balamanorama

Up

index: 7.4.15 sutra: आपोऽन्यतरस्याम्


आपोऽन्यतरस्याम् - आपोऽन्यतरस्याम् । कपीति ।न कपी॑त्यतस्तदनुवृत्तेरिति भावः । आबन्तस्येति । प्रत्ययग्रहणपरिभाषया लब्धमिदम् । ह्रस्वो वेति ।शृद्दृप्रां ह्रस्वो वा॑ इत्यतस्तदनुवृत्तेरिति भावः ।न कपी॑ति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । बहुवमालाक इति । बह्व्यो माला यस्येति विग्रहः । ह्रस्वपक्षे 'बहुलमालक' इति भावति । कपो वौकल्पिकत्वात् पक्षे बहुमालः । सर्वत्रस्त्रियाःपुंवदि॑ति पुंवत्त्वम् ।