शॄदॄप्रां ह्रस्वो वा

7-4-12 शॄदॄप्रां ह्रस्वः वा गुणः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शॄ पॄ दॄ इत्येतेषां अङ्गानां लिटि परतो वा ह्रस्वो भवति। शॄ विशश्रतुः, विशश्रुः। विशशरतुः, विशशरुः। दॄ विदद्रतुः, विदद्रुः। विददरतुः, विददरुः। पॄ निपप्रतुः, निपप्रुः। निपपरतुः, निपपरुः। ह्रस्ववचनम् इत्वोत्वनिवृत्त्यर्थम्। केचिदेतत् सूत्रं प्रत्याचक्षते। श्रा पाके, द्रा कुत्सायां गतौ, प्रा पूरणे इत्येतेषामनेकार्था धातवः इति शॄदॄप्रामर्थे वर्तमानानां विशश्रतुः, विशश्रुः, विदद्रतुः, विदद्रुः, निपप्रतुः, निपप्रुः इत्येतानि रूपाणि साधयन्ति। तथा च सति क्वसौ विशशृवानित्येतद् रूपं न स्यात्।

Siddhanta Kaumudi

Up

एषां किति लिटि ह्रस्वो वा स्यात् । पक्षे गुणः । पप्रतुः । पप्रुः । पपरतुः । पपरुः । परिता । परीता । अपिपः । अपिपूर्ताम् । अपिपरूः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । ह्रस्वान्तोऽयमिति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि प्रियात् । अपार्षीत् । पाणिनीयमते तु तं रोदसी पिपृतमित्यादौ छान्दसत्त्वं शरणम् ।{$ {!1087 डुभृञ्!} धारणपोषणयोः$} ॥

Laghu Siddhanta Kaumudi

Up

एषां लिटि ह्रस्वो वा स्यात्। पप्रतुः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शृदॄप्रां ह्रस्वो वा>> - शृदृप्राम् । शृ दृ पृ एषां द्वन्द्वः । लिटीति ।दयतेर्दिगि लिटीटत्यतस्तदनुवृत्तेरिति भावः । यद्यपि पूर्वसूत्रेषु क्वापि कितीति न दृष्टं तथापि अस्यऋच्छत्यृता॑मिति गुणाऽपवादत्वाद्गुणस्य च तस्य किदर्थत्वात्कितीत्युक्तम् । पप्रतुरिति । पपृ अतुस् इति स्थिते ऋकारस्य ह्रस्वे तस्य यणिति भावः । गुणपक्षे आह -पपरतुरिति । गुण एव तु न विकल्पितः, गुणाऽभावेवार्णादाङ्गं बलीयः॑ इति यणं बाधित्वाउदोष्ठए॑त्युत्त्वप्रसङ्गात् । पपरिथ पप्रथुः — पपरथुः पप्रपपर । पपार पपर पप्रिव पपरिव । 'वृतो वा' इति दीर्घविकल्पं मत्वा आह -परिता परितेति । परिष्यति — परीष्यति । पिपर्तु — पिपूर्तात् पिपूर्ताम् पिपुरतु । पिपूर्हि — पिपूर्तात् पिपूर्तम् पिपूर्त । पिपराणि पिपराव पिपराम । लङ्याह — अपिपरिति । अपि पृ त् इति स्थिते गुणे रपरत्वे हल्ङ्यादिना तकारलोपे रेफस्य विसर्गः । अपिपरुरिति । अभ्यस्तत्वात् जुस् । कृतेजुसि चे॑ति गुणे रपरत्वम् । अपिपः अपिपूर्तमपिपूर्त । अपिपरमपिपूर्व अपिपूर्म । केचिदिति । अन्ये आचार्या इत्यर्थः । ह्रस्वान्तत्वपक्षेउदोष्ठए॑त्युत्त्वं नेति मत्वा आह -पिपृत इति । ह्रस्वान्तस्य अनिट्त्वाल्लुडादौ पर्तेत्यादि । पिपृहि । अपार्षीदिति । ह्रस्वान्तस्य अनिट्त्वान्न सिज्लोप इति भावः । नन्वाचार्यान्तरसंमतं ह्रस्वान्तत्वं कुतोऽस्माभिरादर्तव्यमित्यत आह — पाणिनीयेति । पाणिनिसंमतदीर्घान्तत्वस्यैवाश्रयणेतं रोदसी पिपृत॑मित्यादौउदोष्ठ॑त्युत्त्वापत्त्या॑ऋकारस्य ह्रस्वस्य श्रवणाऽनापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीयं स्यादत्यर्थः । डुभृञिति । अनिडयम् । ञित्त्वादुभयपदी । श्लौ सति द्वित्वनादौ बिभर्तीत्यादि स्थितम् ।

Padamanjari

Up

'शृ हिंसायाम्' ,'दृ विदारणे' ,'पृ पालनपूरणयोः' । विशशरतुरित्यादि ।'न शशददवादिगुणानाम्' इत्येत्वाभ्यासलोपयोः प्रतिषेधः । अथ किमर्थं ह्रस्वो विकल्प्यते, न प्रकृत एव गुणो विकल्प्येत, गुणाभावपक्षे यणादेशेन विशश्रतुरित्यादिरूपसिद्धिः ? इत्यत आह - ह्रस्ववचनमित्वनिवृत्यर्थमिति । अन्यथा'वार्णादाङ्ग बलीयः' इति वर्णाश्रयमन्तरङ्गमपि यणं बाधित्वा इत्वं स्यात् । केचिदित्यादि । कथं पुनरस्य प्रत्याख्याने विशश्रतुरित्यादिरूपसिद्धिः ? इत्यत आह - श्रा पाक इत्यादि । ननु चार्थभेदः ? न इत्याह - अनेकार्था इति । तथा सतीत्यादिना प्रत्याख्यानं प्रत्याचष्टे । तत्र शृणातेः क्वसौ - विश'सर्वानिति, श्रातेस्तु - विशश्रिवानिति । तस्माद् ह्रस्व एव विकल्पनीय इत्यर्थः ॥