7-4-9 दयतेः दिगि लिटि
index: 7.4.9 sutra: दयतेर्दिगि लिटि
दयतेरङ्गस्य लिटि परतो दिगि इत्ययमादेशो भवति। अव्दिग्ये, अवदिग्याते, अवदिग्यिरे। दयतेः इति दीङो ग्रहणं न तु दय दाने इत्यस्य। तस्य हि लिति आम् विहितः। दिग्यादेशेन द्विर्वचनस्य बाधनम् इष्यते।
index: 7.4.9 sutra: दयतेर्दिगि लिटि
दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये ॥
index: 7.4.9 sutra: दयतेर्दिगि लिटि
दयतेर्दिगि लिटि - दयतेर्दिगि ।दिगी॑ति लुप्तप्रथमाकम् ।देङ्धातोर्दिगीत्यादेशः स्याल्लिटीत्यर्थः । ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदग्ये इत्यादि स्यादित्यत आह — दिग्यादेशेनेति । एतच्च स्पष्टम् । वृत्तिरिति । भाष्यस्याप्युपलक्षणम् । क्रादिनियमादिट् । दिग्यिषे दिग्याथे दिग्यिध्वे । दिग्ये दिग्यिवहे दिग्यिमहे । दाता । दास्यते । दयताम् । अदयत । दयेत । दासीष्ट ।
index: 7.4.9 sutra: दयतेर्दिगि लिटि
अवदिग्य इति ।'देङ् रक्षणे' , ङित्वादात्मिनेपदम्, ठेरनेकाचःऽ इति यण् । न तु दयेत्यस्येति ।'दय दानगतिरक्षणेषु' इत्यस्य । तस्य लिट।लम्विहित इति ।'दयायाससश्च' इत्यनेन । दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यत इति । नाप्राप्ते तस्मिन्नस्यारम्भात् । ननु दयतेः प्राप्तं द्विर्वचनं बाध्यताम्, दिग्यादेशस्य तु स्थानिवद्भावेन द्विर्वचनं प्राप्नोति, तत्कथं बाध्यते, न हि तस्मिन्नाप्राप्ते तस्यारम्भः ? उच्यते; बाध्यबाधकभावे हि द्वेतम् - लक्ष्यं वा लक्षणेन बाध्यते, लक्षणं वा तेनेति । तत्राद्ये पक्षे स्यादेतच्चोद्यम्, द्विर्वचनशास्त्रस्याबाधितत्वात्; द्वितीये तु द्विर्वचनशास्त्रमेवास्मिन् विषये दिग्यादेशशास्त्रेण बाधितमिति कृतेऽपि दिग्यादेशे नास्ति द्विर्वचनस्य प्रसङ्गः । यद्येवम्, ठस्तर्भूःऽ - बभूव, अत्र द्विर्वचनं न स्यात्, अनवकाशा हि विधयो बाधका भवन्ति, सावकाशश्चायम्, कोऽवकाशः ? भविता, भवितुम्; यस्तर्हि लिट।लेव विधीयते -'चक्षिङ्ः ख्याञ्' ,'वा लिटि' इति, तत्र द्विर्वचनं न प्राप्नोति - आचख्यौ ? नैष दोषः; आर्धधातुके लिटीति विषयसप्तमी, ततश्च द्विर्वचननिमितस्य लिट उत्पतेः प्रागेव ख्याञादेशः, पश्चाल्लिटि परतो द्विर्वचनम् । इह तु परसप्तम्याश्रयणान्नाप्राप्ते द्विर्वचने दिगिरारभ्यमाणस्तद् बाधते । एवमन्यत्रापि, यत्र बाधो नेष्यते तत्र लक्ष्य बाधो वक्तव्यः, विषयसप्तमी वाश्रयणीया ॥