6-1-136 अड् अभ्यासव्यवाये अपि संहितायाम् सुट्
अड्व्यवायेऽभ्यासव्यवायेऽपि सुट् कात् पूर्वो भवति। समस्करोत्। समस्कार्षीत्। संचस्कार। परिचस्कार। किमर्थं पुनरिदमुच्यते, <<पूर्वं धातुरुपसर्गेण युज्यते>> इति तत्र धातूपसर्गयोः कार्यमन्तरङ्गमिति पूर्वं सुट् क्रियते पश्चादडभ्यासौ ? अभक्त श्च सुडित्युक्त म् ततः सकारादुत्तरावडभ्यासावनिष्टे देशे स्याताम्। एतस्मिंस्तु सत्यत एव वचनात् कृतयोरडभ्यासयोस्तद्व्यवायेऽपि सुट् कात् पूर्वः क्रियत इति सिद्धमिष्टं भवति॥
व्यवायःउव्यवधानम्, अपिशब्दादव्यवधानेऽपि, असति तु तस्मिन् व्यवाय एव स्यात्। संचस्करिथेति। ठृतो भारद्वाजस्यऽ इत्येतदप्यसुट एवेष्यत इति वचनादिडागमः। पूर्वं धातुरित्यादि। यद्यपि'पूर्वं धातुः साधनेन युज्यते' इत्यत्रापि दर्शने सुतरामेतदनारम्भणीयम्, तथापि स्वदर्शनत्वादुपपन्नत्वाच्चेदमेव दर्शनमुपन्यस्तम्। अपर आह -'किमर्थं पुनरिदमुच्यते' इत्यस्यानन्तरं यावतेति पठितव्यम्, ततश्च पश्चादडभ्यासावित्येवमन्तश्चोद्यग्रन्थःऽ इति। परिहरति - अभक्तुश्चेति। चस्त्वर्थे। तत्रेति। अभक्ते। एतस्मिस्तु सतीत्यादि। ननु चास्मादेव वचनात्कृतयोरभ्यासयोस्तद्व्यवायेऽपि सुट् कात्पूर्वः क्रियताम्, यस्तु संकृ इत्यस्यामवस्थायां सुट् प्राप्नोति स केन वार्येत? उच्यते; नाप्राप्ते तस्मिन्नस्यारम्भातस्यानेन बाधः। अपरे तु-एतच्चोद्यभयाद्भाष्यकारमतमेव ज्यायो मन्यन्ते। यकत्पुनरुक्तमाद्गुणप्रसंग इति? नैष दोषः; ठृतश्च संयोगादेःऽ इत्यत्र तावदुपदेश इति वर्तते, क्व प्रकृतम्? ठेकाच उपदेशेऽनुदातात्ऽ इति, ततः किम्? ठपदेशे संयोगादेःऽ इति सुटि कृते न भविष्यति।'गुणो' र्तिसंयोगाद्योःऽ इत्यत्रापि नित्यमित्यनुवर्तते, क्व प्रकृतम् ?'नित्यं च्छन्दसि' इति, ततः किम् ? नित्यं यः संयोगादिस्तस्य गुणः ? सुटि कृते न भविष्यति ॥